Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 12/ मन्त्र 86
    ऋषिः - भिषगृषिः देवता - वैद्यो देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    7

    यस्यौ॑षधीः प्र॒सर्प॒थाङ्ग॑मङ्गं॒ परु॑ष्परुः। ततो॒ यक्ष्मं॒ विबा॑धध्वऽउ॒ग्रो म॑ध्यम॒शीरि॑व॥८६॥

    स्वर सहित पद पाठ

    यस्य॑। ओष॑धीः। प्र॒सर्प॒थेति॑ प्र॒ऽसर्प॑थ। अङ्ग॑मङ्ग॒मित्यङ्ग॑म्ऽअङ्गम्। प॑रुष्परुः। परुः॑परु॒रिति॒ परुः॑ऽपरुः। ततः॑। यक्ष्म॑म्। वि। बा॒ध॒ध्वे॒। उ॒ग्रः। म॒ध्य॒म॒शीरि॒वेति॑ मध्यम॒शीःऽइ॑व ॥८६ ॥


    स्वर रहित मन्त्र

    यस्यौषधीः प्रसर्पथाङ्गम्ङ्गम्परुष्परुः । ततो यक्ष्मँ वि बाधध्व उग्रो मध्यमशीरिव ॥


    स्वर रहित पद पाठ

    यस्य। ओषधीः। प्रसर्पथेति प्रऽसर्पथ। अङ्गमङ्गमित्यङ्गम्ऽअङ्गम्। परुष्परुः। परुःपरुरिति परुःऽपरुः। ततः। यक्ष्मम्। वि। बाधध्वे। उग्रः। मध्यमशीरिवेति मध्यमशीःऽइव॥८६॥

    यजुर्वेद - अध्याय » 12; मन्त्र » 86
    Acknowledgment

    अन्वयः - हे मनुष्याः! यूयं यस्याङ्गमङ्गं परुष्परुः प्रति वर्त्तमानं उग्रो यक्ष्मं मध्यमशीरिव विबाधध्वे। तत ओषधीः प्रसर्पथ विजानीत तान् वयं सेवेमहि॥८६॥

    पदार्थः -
    (यस्य) (ओषधीः) (प्रसर्पथ) (अङ्गमङ्गम्) प्रत्यवयवम् (परुष्परुः) मर्ममर्म (ततः) (यक्ष्मम्) (वि) (बाधष्वे) (उग्रः) (मध्यमशीरिव) यो मध्यमानि मर्माणि शृणातीव॥८६॥

    भावार्थः - यदि शास्त्राऽनुसारेणौषधानि सेवेरँस्तर्ह्यङ्गादङ्गाद् रोगान् निःसार्याऽरोगिनो भवन्ति॥८६॥

    इस भाष्य को एडिट करें
    Top