Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 13/ मन्त्र 21
    ऋषिः - अग्निर्ऋषिः देवता - पत्नी देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    6

    या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि। तस्या॑स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम्॥२१॥

    स्वर सहित पद पाठ

    या। श॒तेन॑। प्र॒त॒नोषीति॑ प्रऽत॒नोषि॑। स॒हस्रे॑ण। वि॒रोह॒सीति॑ वि॒ऽरोह॑सि। तस्याः॑। ते॒। दे॒वि॒। इ॒ष्ट॒के॒। वि॒धेम॑। ह॒विषा॑। व॒यम् ॥२१ ॥


    स्वर रहित मन्त्र

    या शतेन प्रतनोषि सहस्रेण विरोहसि । तस्यास्ते देवीष्टके विधेम हविषा वयम् ॥


    स्वर रहित पद पाठ

    या। शतेन। प्रतनोषीति प्रऽतनोषि। सहस्रेण। विरोहसीति विऽरोहसि। तस्याः। ते। देवि। इष्टके। विधेम। हविषा। वयम्॥२१॥

    यजुर्वेद - अध्याय » 13; मन्त्र » 21
    Acknowledgment

    अन्वयः - हे इष्टके इष्टकावद् दृढांगे देवि स्त्रि! यथेष्टका शतेन प्रतनोति सहस्रेण विरोहित, तथा या त्वमस्मान् शतेन प्रतनोषि सहस्रेण च विरोहसि, तस्यास्ते तव हविषा वयं विधेम त्वां परिचरेम॥२१॥

    पदार्थः -
    (या) (शतेन) असंख्यातेन (प्रतनोषि) (सहस्रेण) असंख्यातेन (विरोहसि) विविधतया वर्धसे (तस्याः) (ते) तव (देवि) देदीप्यमाने (इष्टके) इष्टकेव शुभैर्गुणैः सुशोभिते (विधेम) परिचरेम (हविषा) होतुमर्हेण (वयम्)। [अयं मन्त्रः शत॰७.४.२.१५ व्याख्यातः]॥२१॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यथा शतशः सहस्राणीष्टका गृहाकारा भूत्वा सर्वान् सुखयन्ति, तथैव याः साध्व्यः स्त्रियः पुत्रपौत्रभृत्यादिभिः सर्वानानन्दयेयुस्ताः पुरुषाः सततं सत्कुर्य्युः। नहि सत्पुरुषस्त्री-समागमेन विना शुभगुणाढ्यान्यपत्यानि जायेरन्। एवंभूतैः सन्तानैर्विना मातापितॄणां कुतः सुखं जायेत॥२१॥

    इस भाष्य को एडिट करें
    Top