Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 17/ मन्त्र 53
    ऋषिः - अप्रतिरथ ऋषिः देवता - अग्निर्देवता छन्दः - विराडार्ष्यनुष्टुप् स्वरः - गान्धारः
    9

    उदु॑ त्वा॒ विश्वे॑ दे॒वाऽअग्ने॒ भर॑न्तु॒ चित्ति॑भिः। स नो॑ भव शि॒वस्त्वꣳ सु॒प्रती॑को वि॒भाव॑सुः॥५३॥

    स्वर सहित पद पाठ

    उत्। ऊँ॒ऽइत्यूँ॑। त्वा॒। विश्वे॑। दे॒वाः। अग्ने॑। भर॑न्तु॒। चित्ति॑भि॒रिति॒ चित्ति॑ऽभिः। सः। नः॒। भ॒व॒। शि॒वः। त्वम्। सु॒प्रती॑क॒ इति॑ सु॒ऽप्रती॑कः। वि॒भाव॑सु॒रिति॑ वि॒भाऽव॑सुः ॥५३ ॥


    स्वर रहित मन्त्र

    उदु त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिः । स नो बह्व शिवस्त्वँ सुप्रतीको विभावसुः ॥


    स्वर रहित पद पाठ

    उत्। ऊँऽइत्यूँ। त्वा। विश्वे। देवाः। अग्ने। भरन्तु। चित्तिभिरिति चित्तिऽभिः। सः। नः। भव। शिवः। त्वम्। सुप्रतीक इति सुऽप्रतीकः। विभावसुरिति विभाऽवसुः॥५३॥

    यजुर्वेद - अध्याय » 17; मन्त्र » 53
    Acknowledgment

    अन्वयः - हे अग्ने! सभेश यं त्वा विश्वे देवाश्चित्तिभिरुद्भरन्तु, स उ त्वं नः शिवः सुप्रतीको विभावसुर्भव॥५३॥

    पदार्थः -
    (उत्) (उ) (त्वा) त्वाम् (विश्वे) सर्वे (देवाः) विद्वांसः (अग्ने) विद्वन् (भरन्तु) धरन्तु (चित्तिभिः) संज्ञानैः (सः) (नः) अस्मभ्यम् (भव) (शिवः) मङ्गलकारी (त्वम्) (सुप्रतीकः) सुष्ठु प्रतीकं प्रतीतिकरं ज्ञानं यस्य सः (विभावसुः) यो विविधासु भासु विद्याप्रकाशेषु वसुः वसति सः॥५३॥

    भावार्थः - ये येभ्यो विद्यां दद्युस्ते तेषां सेवकाः स्युः॥५३॥

    इस भाष्य को एडिट करें
    Top