Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 17/ मन्त्र 81
    ऋषिः - सप्तऋषय ऋषयः देवता - मरुतो देवताः छन्दः - आर्षी गायत्री स्वरः - षड्जः
    6

    ई॒दृङ् चा॑न्या॒दृङ् च॑ स॒दृङ् च॒ प्रति॑सदृङ् च। मि॒तश्च॒ सम्मि॑तश्च॒ सभ॑राः॥८१॥

    स्वर सहित पद पाठ

    ई॒दृङ्। च॒। अ॒न्या॒दृङ्। च॒। स॒दृङ्। स॒दृङिति॑ स॒ऽदृङ्। च॒। प्रति॑सदृ॒ङ्ङिति॒ प्रति॑ऽसदृङ्। च॒। मि॒तः। च॒। सम्मि॑त॒ इति॒ सम्ऽमि॑तः। च॒। सभ॑रा॒ इति॒ सऽभ॑राः ॥८१ ॥


    स्वर रहित मन्त्र

    ईदृङ्चान्यदृङ्च सदृङ्च प्रतिसदृङ्च । मितश्च सम्मितश्च सभराः ॥


    स्वर रहित पद पाठ

    ईदृङ्। च। अन्यादृङ्। च। सदृङ्। सदृङिति सऽदृङ्। च। प्रतिसदृङ्ङिति प्रतिऽसदृङ्। च। मितः। च। सम्मित इति सम्ऽमितः। च। सभरा इति सऽभराः॥८१॥

    यजुर्वेद - अध्याय » 17; मन्त्र » 81
    Acknowledgment

    अन्वयः - ये पुरुषा ईदृङ् चान्यादृङ् च सदृङ् च प्रतिसदृङ् च मितश्च सम्मितश्च सभराश्च वर्त्तन्ते, ते व्यावहारिकीं कार्यसिद्धिं कर्त्तुं शक्नुवन्ति॥८१॥

    पदार्थः -
    (ईदृङ्) अनेन तुल्यः (च) (अन्यादृङ्) अन्येन समानः (च) (सदृङ्) समानं पश्यति स सदृङ् (च) (प्रतिसदृङ्) तं तं प्रति सदृशं पश्यति (च) (मितः) मानं प्राप्तः (च) (सम्मितः) सम्यक् परिमितः (च) (सभराः) समानं बिभ्रतीति सभराः॥८१॥

    भावार्थः - यो मनुष्य ईश्वरतुल्य उत्तमस्तदनुकरणं कृत्वा सत्यं धरत्यसत्यं त्यजति, स एव योग्योऽस्ति॥८१॥

    इस भाष्य को एडिट करें
    Top