Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 17/ मन्त्र 83
    ऋषिः - सप्तऋषय ऋषयः देवता - मरुतो देवताः छन्दः - भुरिगार्ष्युष्णिक् स्वरः - ऋषभः
    7

    ऋ॒त॒जिच्च॑ सत्य॒जिच्च॑ सेन॒जिच्च॑ सु॒षेण॑श्च। अन्ति॑मित्रश्च दू॒रेऽअ॑मित्रश्च ग॒णः॥८३॥

    स्वर सहित पद पाठ

    ऋ॒त॒जिदित्यृ॑त॒ऽजित्। च॒। स॒त्यजिदिति॑ सत्य॒ऽजित्। च॒। से॒न॒जिदिति॑ सेन॒ऽजित्। च॒। सु॒षेणः॑। सु॒सेन॒ इति॑ सु॒ऽसेनः॑। च॒। अन्ति॑मित्र॒ इत्यन्ति॑ऽमित्रः। च॒। दू॒रेऽअ॑मित्र॒ इति॑ दू॒रेऽअ॑मित्रः। च॒। ग॒णः ॥८३ ॥


    स्वर रहित मन्त्र

    ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्च । अन्तिमित्रश्च दूरेअमित्रश्च गणः ॥


    स्वर रहित पद पाठ

    ऋतजिदित्यृतऽजित्। च। सत्यजिदिति सत्यऽजित्। च। सेनजिदिति सेनऽजित्। च। सुषेणः। सुसेन इति सुऽसेनः। च। अन्तिमित्र इत्यन्तिऽमित्रः। च। दूरेऽअमित्र इति दूरेऽअमित्रः। च। गणः॥८३॥

    यजुर्वेद - अध्याय » 17; मन्त्र » 83
    Acknowledgment

    अन्वयः - य ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्चान्तिमित्रश्च दूरेऽअमित्रश्च भवेत्, स एव गणो गणनीयो जायते॥८३॥

    पदार्थः -
    (ऋतजित्) य ऋतं विज्ञानमुत्कर्षति सः (च) (सत्यजित्) सत्यं कारणं धर्मं चोन्नयति (च) (सेनजित्) यः सेनां जयति सः (च) (सुषेणः) शोभना सेना यस्य सः (च) (अन्तिमित्रः) अन्तौ समीपे मित्राः सहायकारिणो यस्य सः (च) (दूरे अमित्रः) दूरे अमित्राः शत्रवो यस्य सः (च) (गणः) गणनीयः॥८३॥

    भावार्थः - ये मनुष्या विद्यासत्यादीनि कर्माण्युन्नयेयुर्मित्रसेविनः शत्रुद्वेषिणश्च भवेयुस्त एव लोके प्रशंसनीयाः स्युः॥८३॥

    इस भाष्य को एडिट करें
    Top