Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 57
    ऋषिः - गालव ऋषिः देवता - अग्निर्देवता छन्दः - निचृदार्षी गायत्री स्वरः - षड्जः
    7

    इ॒ष्टोऽअ॒ग्निराहु॑तः पिपर्त्तु नऽइ॒ष्टꣳ ह॒विः। स्व॒गेदं दे॒वेभ्यो॒ नमः॑॥५७॥

    स्वर सहित पद पाठ

    इ॒ष्टः। अ॒ग्निः। आहु॑त॒ इत्याहु॑तः। पि॒प॒र्त्तु॒। नः॒। इ॒ष्टम्। ह॒विः। स्व॒गेति॑ स्व॒ऽगा। इ॒दम्। दे॒वेभ्यः॑। नमः॑ ॥५७ ॥


    स्वर रहित मन्त्र

    इष्टोऽअग्निराहुतः पिपर्तु न इष्टँ हविः । स्वगेदन्देवेभ्यो नमः ॥


    स्वर रहित पद पाठ

    इष्टः। अग्निः। आहुत इत्याहुतः। पिपर्त्तु। नः। इष्टम्। हविः। स्वगेति स्वऽगा। इदम्। देवेभ्यः। नमः॥५७॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 57
    Acknowledgment

    अन्वयः - हविराहुत इष्टोऽग्निर्न इष्टं पिपर्त्तु नः पिपर्त्तु वा इदं स्वगा नमो देवेभ्योऽस्तु॥५७॥

    पदार्थः -
    (इष्टः) सत्कृत आहुतिभिर्वर्धितो वा (अग्निः) सभाद्यध्यक्षो विद्वान् पावको वा (आहुतः) समन्तात् तर्पितो हुतो वा (पिपर्त्तु) पालयतु पूरयतु वा (नः) अस्मानस्माकं वा (इष्टम्) सुखं तत्साधनं वा (हविः) हविषा। संस्कृतद्रव्येण विभिक्तिव्यत्ययः (स्वगा) यत्स्वान् गच्छति प्राप्नोति तत् स्वगा। अत्र विभक्तेः सुपां सुलुग्॰ [अष्टा॰७.१.३९] इत्याकारदेशः (इदम्) (देवेभ्यः) विद्वद्भ्यः (नमः) अन्नं सत्कारो वा॥५७॥

    भावार्थः - मनुष्यैरग्नौ यत् सुसंस्कृतं द्रव्यं हूयते यदिह बह्वन्नकारि जायतेऽतस्तेन विद्वदादीनां सत्कारः कर्त्तव्यः॥५७॥

    इस भाष्य को एडिट करें
    Top