यजुर्वेद - अध्याय 18/ मन्त्र 59
ऋषिः - विश्वकर्मा ऋषिः
देवता - प्रजापतिर्देवता
छन्दः - निचृदार्षी त्रिष्टुप्
स्वरः - धैवतः
9
ए॒तꣳ स॑धस्थ॒ परि॑ ते ददामि॒ यमा॒वहा॑च्छेव॒धिं जा॒तवे॑दाः। अ॒न्वा॒ग॒न्ता य॒ज्ञप॑तिर्वो॒ऽअत्र॒ तꣳ स्म॑ जानीत पर॒मे व्यो॑मन्॥५९॥
स्वर सहित पद पाठए॒तम्। स॒ध॒स्थेति॑ सधऽस्थ। परि॑। ते॒। द॒दा॒मि॒। यम्। आ॒वहादित्या॒ऽवहा॑त्। शे॒व॒धिमिति॑ शेव॒ऽधिम्। जा॒तवे॑दा॒ इति॑ जा॒तऽवे॑दाः। अ॒न्वा॒ग॒न्तेत्य॑नुऽआऽग॒न्ता। य॒ज्ञप॑ति॒रिति॑ य॒ज्ञऽप॑तिः। वः॒। अत्र॑। तम्। स्म॒। जा॒नी॒त॒। प॒र॒मे। व्यो॑म॒न्निति॒ विऽओ॑मन् ॥५९ ॥
स्वर रहित मन्त्र
एतँ सधस्थ परि ते ददामि यमावहाच्छेवधिञ्जातवेदाः । अन्वागन्ता यज्ञपतिर्वो अत्र तँ स्म जानीत परमे व्योमन् ॥
स्वर रहित पद पाठ
एतम्। सधस्थेति सधऽस्थ। परि। ते। ददामि। यम्। आवहादित्याऽवहात्। शेवधिमिति शेवऽधिम्। जातवेदा इति जातऽवेदाः। अन्वागन्तेत्यनुऽआऽगन्ता। यज्ञपतिरिति यज्ञऽपतिः। वः। अत्र। तम्। स्म। जानीत। परमे! व्योमन्निति विऽओमन्॥५९॥
विषयः - पुनस्तमेव विषयमाह॥
अन्वयः - हे ईश्वरं जिज्ञासवो मनुष्याः! हे सधस्थ! च जातवेदा यज्ञपतिर्ये शेवधिमावहादेतमत्र परमे व्योमन् व्याप्तं परमात्मानमहं ते तथा परिदादाम्यन्वागन्ताऽहं यं वो युष्मभ्यमुपदिशानि स्म, तं यूयं विजानीत॥५९॥
पदार्थः -
(एतम्) पूर्वोक्तम् (सधस्थ) समानस्थान (परि) सर्वतः (ते) तुभ्यम् (ददामि) (यम्) (आवहात्) समन्तात् प्राप्नुयात् (शेवधिम्) शेवं सुखं धीयते यस्मिँस्तं निधिम् (जातवेदाः) जातप्रज्ञो वेदार्थवित् (अन्वागन्ता) धर्ममन्वागच्छति (यज्ञपतिः) यज्ञस्य पालक इव वर्त्तमानः (वः) युष्मभ्यम् (अत्र) (तम्) (स्म) एव (जानीत) (परमे) प्रकृष्टे (व्योमन्) व्योम्न्याकाशे॥५९॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्या विद्वनुकूलमाचरन्ति, ते सर्वव्यापिनमन्तर्यामिणमीश्वरं प्राप्तुमर्हन्ति॥५९॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal