Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 18/ मन्त्र 70
    ऋषिः - शास ऋषिः देवता - इन्द्रो देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    8

    वि न॑ऽइन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः। योऽअ॒स्माँ२ऽअ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑॥७०॥

    स्वर सहित पद पाठ

    वि। नः॒। इ॒न्द्र॒। मृधः॑। ज॒हि॒। नी॒चा। य॒च्छ॒। पृ॒त॒न्य॒तः। यः। अ॒स्मा॒न्। अ॒भिदास॒तीत्य॑भि॒ऽदास॑ति। अध॑रम्। ग॒म॒य॒। तमः॑ ॥७० ॥


    स्वर रहित मन्त्र

    वि नऽइन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । योऽअस्माँ अभिदासत्यधरङ्गमया तमः ॥


    स्वर रहित पद पाठ

    वि। नः। इन्द्र। मृधः। जहि। नीचा। यच्छ। पृतन्यतः। यः। अस्मान्। अभिदासतीत्यभिऽदासति। अधरम्। गमय। तमः॥७०॥

    यजुर्वेद - अध्याय » 18; मन्त्र » 70
    Acknowledgment

    अन्वयः - हे इन्द्र सेनेश! त्वं मृधो वि जहि पृतन्यतो नः शत्रून् नीचा यच्छ, योऽस्मानभिदासति तमधरं तमो गमय॥७०॥

    पदार्थः -
    (वि) (नः) अस्माकम् (इन्द्र) सेनेश (मृधः) मर्धन्त्यार्द्रीभवन्ति येषु तान् सङ्ग्रामान्। मृध इति सङ्ग्रामनामसु पठितम्॥ (निघं॰२.१७) (जहि) (नीचा) न्यग्भूतान् नम्रान्। अत्र सुपां सुलुग्॰ [अष्टा॰७.१.३९] इत्याकारः (यच्छ) निगृह्णीहि (पृतन्यतः) आत्मनः पृतनां सेनामिच्छतः (यः) विरोधी (अस्मान्) (अभिदासति) अभिमुखेनोपक्षयति (अधरम्) अधोगतिम् (गमय) प्रापय। अत्र अन्येषामपि॰ [अष्टा॰६.३.१३७] इति दीर्घः (तमः) अन्धकारं कारागृहम्॥७०॥

    भावार्थः - सेनेशेन सङ्ग्रामा जेतव्यास्तेन नीचकर्मकारिणां निग्रहः कर्त्तव्यो राजप्रजाविरोधकारयिता भृशं दण्डनीयश्च॥७०॥

    इस भाष्य को एडिट करें
    Top