Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 26
    ऋषिः - हैमवर्चिर्ऋषिः देवता - यज्ञो देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    7

    अ॒श्विभ्यां॑ प्रातः सव॒नमिन्द्रे॑णै॒न्द्रं माध्य॑न्दिनम्। वै॒श्व॒दे॒वꣳ सर॑स्वत्या तृ॒तीय॑मा॒प्तꣳ सव॑नम्॥२६॥

    स्वर सहित पद पाठ

    अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। प्रा॒तः॒स॒व॒नमिति॑ प्रातःऽसव॒नम्। इन्द्रे॑ण। ऐ॒न्द्रम्। माध्य॑न्दिनम्। वै॒श्व॒दे॒वमिति॑ वैश्वऽदे॒वम्। सर॑स्वत्या। तृ॒तीय॑म्। आ॒प्तम्। सव॑नम् ॥२६ ॥


    स्वर रहित मन्त्र

    अश्विभ्याम्प्रातःसवनमिन्द्रेणैन्द्रम्माध्यन्दिनम् । वैश्वदेवँ सरस्वत्या तृतीयमाप्तँ सवनम् ॥


    स्वर रहित पद पाठ

    अश्विभ्यामित्यश्विऽभ्याम्। प्रातःसवनमिति प्रातःऽसवनम्। इन्द्रेण। ऐन्द्रम्। माध्यन्दिनम्। वैश्वदेवमिति वैश्वऽदेवम्। सरस्वत्या। तृतीयम्। आप्तम्। सवनम्॥२६॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 26
    Acknowledgment

    अन्वयः - यैरश्विभ्यां प्रथमं सवनमिन्द्रेणैन्द्रं द्वितीयं माध्यन्दिनं सवनं सरस्वत्या वैश्वदेवं तृतीयं सवनमाप्तन्ते जगदुपकारकाः सन्ति॥२६॥

    पदार्थः -
    (अश्विभ्याम्) सूर्य्याचन्द्रमोभ्याम् (प्रातस्सवनम्) प्रातःकाले सवनं यज्ञक्रियाप्रेरणम् (इन्द्रेण) विद्युता (ऐन्द्रम्) ऐश्वर्यकारकम् (माध्यन्दिनम्) मध्याह्ने भवम् (वैश्वदेवम्) विश्वेषां देवानामिदम् (सरस्वत्या) सत्यया वाचा (तृतीयम्) त्रयाणां पूरकम् (आप्तम्) व्याप्तं प्राप्तम् (सवनम्) आरोग्यकरं होमादिकम्॥२६॥

    भावार्थः - ये त्रिषु कालेषु सार्वजनिकहितमाचरन्ति, तेऽत्र सत्पुरुषास्सन्ति॥२६॥

    इस भाष्य को एडिट करें
    Top