Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 28
    ऋषिः - हैमवर्चिर्ऋषिः देवता - यज्ञो देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    7

    यजु॑र्भिराप्यन्ते॒ ग्रहा॒ ग्रहै॒ स्तोमा॑श्च॒ विष्टु॑तीः। छन्दो॑भिरुक्थाश॒स्त्राणि॒ साम्ना॑वभृ॒थऽआ॑प्यते॥२८॥

    स्वर सहित पद पाठ

    यजु॑र्भिरिति॒ यजुः॑ऽभिः। आ॒प्य॒न्ते॒। ग्रहाः॑। ग्रहैः॑। स्तोमाः॑। च॒। विष्टु॑तीः। विस्तु॑तीरिति॒ विऽस्तु॑तीः। छन्दो॑भि॒रिति॒ छन्दः॑ऽभिः। उ॒क्था॒श॒स्त्राणि॑। उ॒क्थ॒श॒स्त्राणीत्यु॑क्थऽश॒स्त्राणि॑। साम्ना॑। अ॒व॒भृ॒थ इत्य॑वऽभृ॒थः। आ॒प्य॒ते॒ ॥२८ ॥


    स्वर रहित मन्त्र

    यजुर्व्हिराप्यन्ते ग्रहा ग्रहै स्तोमाश्च विष्टुतीः । छन्दोभिरुक्थाशस्त्राणि साम्नावभृथऽआप्यते ॥


    स्वर रहित पद पाठ

    यजुर्भिरिति यजुःऽभिः। आप्यन्ते। ग्रहः। ग्रहैः। स्तोमाः। च। विष्टुतीः। विस्तुतीरिति विऽस्तुतीः। छन्दोभिरिति छन्दःऽभिः। उक्थाशस्त्राणि। उक्थशस्त्राणीत्युक्थऽशस्त्राणि। साम्ना। अवभृथ इत्यवऽभृथः। आप्यते॥२८॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 28
    Acknowledgment

    अन्वयः - हे मनुष्याः! युष्माभिर्यैर्यजुर्भिर्ग्रहा ग्रहैः स्तोमा विष्टुतीश्च छन्दोभिरुक्थाशस्त्राणि चाप्यन्ते, साम्नावभृथ आप्यते, तेषामुपयोगो यथावत् कर्त्तव्यः॥२८॥

    पदार्थः -
    (यजुर्भिः) यजन्ति सङ्गच्छन्ते यैर्यजुर्वेदविद्यावयवैस्तैः (आप्यन्ते) (ग्रहाः) यैः सर्वं क्रियाकाण्डं गृह्णन्ति ते व्यवहाराः (ग्रहैः) (स्तोमाः) पदार्थगुणप्रशंसा (च) (विष्टुतीः) विविधाश्च ताः स्तुतयश्च ताः (छन्दोभिः) गायत्र्यादिभिर्विद्वद्भिः स्तोतृभिर्वा। छन्द इति स्तोतृनामसु पठितम्॥ (निघं॰३.१६) (उक्थाशस्त्राणि) उक्थानि च तानि शस्त्राणि च। अत्र अन्येषामपि॰ [अष्टा॰६.३.१३७] इति पूर्वपदस्य दीर्घः। (साम्ना) सामवेदेन (अवभृथः) शोधनम् (आप्यते) प्राप्यते॥२८॥

    भावार्थः - कश्चिदपि मनुष्यो वेदाभ्यासेन विना अखिलाः साङ्गोपाङ्गविद्याः प्राप्तुं नार्हति॥२८॥

    इस भाष्य को एडिट करें
    Top