Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 38
    ऋषिः - वैखानस ऋषिः देवता - इन्द्रो देवता छन्दः - गायत्री स्वरः - षड्जः
    4

    अग्न॒ऽआयू॑षि पवस॒ऽआ सु॒वोर्ज॒मिषं॑ च नः। आ॒रे बा॑धस्व दु॒च्छुना॑म्॥३८॥

    स्वर सहित पद पाठ

    अग्ने॑। आयू॑षि। प॒व॒से॒। आ। सु॒व॒। ऊर्ज॑म्। इष॑म्। च॒। नः॒। आ॒रे। बा॒ध॒स्व॒। दु॒च्छुना॑म् ॥३८ ॥


    स्वर रहित मन्त्र

    अग्न आयूँषि पवस्व आ सुवोर्जमिषञ्च नः । आरे बाधस्व दुच्छुनाम् ॥


    स्वर रहित पद पाठ

    अग्ने। आयूषि। पवसे। आ। सुव। ऊर्जम्। इषम्। च। नः। आरे। बाधस्व। दुच्छुनाम्॥३८॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 38
    Acknowledgment

    अन्वयः - हे अग्ने! यस्त्वं न आयूंषि पवसे, स त्वमूर्ज्जमिषं चासुव, आरे दुच्छुनां सङ्गं बाधस्व॥३८॥

    पदार्थः -
    (अग्ने) विद्वन् पितः पितामह प्रपितामह (आयूंषि) अन्नादीनि (पवसे) पवित्रीकुर्याः। लेट्प्रयोगोऽयम् (आ) समन्तात् (सुव) प्रेर्ष्व (ऊर्जम्) पराक्रमम् (इषम्) इच्छासिद्धिम् (च) (नः) अस्माकम् (आरे) दूरे निकटे (बाधस्व) निवर्त्तय (दुच्छुनाम्) दुतो दुष्टाश्श्वान इव वर्त्तमानास्तेषाम्॥३८॥

    भावार्थः - पित्रादयोऽपत्येषु दीर्घायुः पराक्रमशुभेच्छा धारयित्वा स्वसन्तानान् दुष्टानां सङ्गान्निवार्य श्रेष्ठानां सङ्गे प्रवर्त्य धार्मिकान् दीर्घायुषः कुर्वन्तु, यतस्ते वृद्धावस्थायामप्यप्रियाचरणं कदाचिन्न कुर्युः॥२८॥

    इस भाष्य को एडिट करें
    Top