यजुर्वेद - अध्याय 19/ मन्त्र 59
अग्नि॑ष्वात्ताः पितर॒ऽएह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः। अ॒त्ता ह॒वीषि॒ प्रय॑तानि ब॒र्हिष्यथा॑ र॒यिꣳ सर्व॑वीरं दधातन॥५९॥
स्वर सहित पद पाठअग्नि॑ष्वात्ताः। अग्नि॑ष्वात्ता॒ इत्यग्नि॑ऽस्वात्ताः। पि॒त॒रः॒। आ। इ॒ह। ग॒च्छ॒त॒। सदः॑सद॒ इति॒ सदः॑ऽसदः। स॒द॒त॒। सु॒प्र॒णी॒त॒यः॒। सु॒प्र॒णी॒त॒य॒ इति॑ सुऽप्रनीतयः। अ॒त्त। ह॒वीषि॑। प्रय॑ता॒नीति॒ प्रऽय॑तानि। ब॒र्हिषि॑। अथ॑। र॒यिम्। सर्व॑वीर॒मिति॒ सर्व॑ऽवीरम्। द॒धा॒त॒न॒ ॥५९ ॥
स्वर रहित मन्त्र
अग्निष्वात्ताः पितरऽएह गच्छत सदःसदः सदत सुप्रणीतयः । अत्ता हवीँषि प्रयतानि बर्हिष्यथा रयिँ सर्ववीरन्दधातन् ॥
स्वर रहित पद पाठ
अग्निष्वात्ताः। अग्निष्वात्ता इत्यग्निऽस्वात्ताः। पितरः। आ। इह। गच्छत। सदःसद इति सदःऽसदः। सदत। सुप्रणीतयः। सुप्रणीतय इति सुऽप्रनीतयः। अत्त। हवीषि। प्रयतानीति प्रऽयतानि। बर्हिषि। अथ। रयिम्। सर्ववीरमिति सर्वऽवीरम्। दधातन॥५९॥
विषयः - पुनस्तमेव विषयमाह॥
अन्वयः - हे सुप्रणीतयोऽग्निष्वात्ताः पितरो! यूयमिहागच्छत सदःसदः सदत, प्रयतानि हवींष्यत्ताऽथ बर्हिषि स्थित्वाऽस्मदर्थं सर्ववीरं रयिं दधातन॥५९॥
पदार्थः -
(अग्निष्वात्ताः) अधीताग्निविद्याः (पितरः) पालकाः (आ) (इह) अस्मिन् वर्त्तमाने काले विद्याप्रचाराय (गच्छत) (सदःसदः) सीदन्ति यस्मिन् यस्मिन् तत्तद् गृहम् (सदत) (सुप्रणीतयः) शोभना प्रगता नीतिर्न्यायो येषान्ते (अत्त) अत्र द्व्यचोऽतस्तिङः [अष्टा॰६.३.१३५] इति दीर्घः (हवींषि) अत्तुमर्हाण्यन्नादीनि (प्रयतानि) प्रयत्नेन साधितानि (बर्हिषि) उत्तमे व्यवहारे (अथ) अत्र निपातस्य च [अष्टा॰६.३.१३६] इति दीर्घः। (रयिम्) धनम् (सर्ववीरम्) सर्वे वीरा यस्मात् प्राप्यन्ते तम् (दधातन) धरत॥५९॥
भावार्थः - ये विद्वांस उपदेशाय गृहङ्गृहं प्रति गत्वाऽऽगत्य च सत्यं धर्मं प्रचारयन्ति, ते गृहस्थैः श्रद्धया दत्तान्यन्नपानादीनि सेवन्ताम्, सर्वाञ्छरीरात्मबलयोग्यान् पुरुषार्थिनः कृत्वा श्रीमन्तः कुर्वन्तु॥५९॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal