Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 35
    ऋषिः - प्रजापतिर्ऋषिः देवता - लिङ्गोक्ता देवताः छन्दः - निचृदुपरिष्टाद्बृहती स्वरः - मध्यमः
    7

    अ॒श्विनकृ॑तस्य ते॒ सर॑स्वतिकृत॒स्येन्द्रे॑ण सु॒त्राम्णा॑ कृ॒तस्य॑। उप॑हूत॒ उप॑हूतस्य भक्षयामि॥३५॥

    स्वर सहित पद पाठ

    अ॒श्विन॑कृत॒स्येत्य॒श्विन॑ऽकृतस्य। ते॒। सर॑स्वतिकृत॒स्येति॒ सर॑स्वतिऽकृतस्य। इन्द्रे॑ण। सु॒त्राम्णेति॑ सु॒ऽत्राम्णा॑। कृ॒तस्य॑। उप॑हूत॒ इत्युप॑ऽहूतः। उप॑हूत॒स्येत्युप॑ऽहूतस्य। भ॒क्ष॒या॒मि॒ ॥३५ ॥


    स्वर रहित मन्त्र

    अश्विनकृतस्य ते सरस्वतिकृतस्येन्द्रेण सुम्त्राम्णा कृतस्य । उपहूत उपहूतस्य भक्षयामि ॥


    स्वर रहित पद पाठ

    अश्विनकृतस्येत्यश्विनऽकृतस्य। ते। सरस्वतिकृतस्येति सरस्वतिऽकृतस्य। इन्द्रेण। सुत्राम्णेति सुऽत्राम्णा। कृतस्य। उपहूत इत्युपऽहूतः। उपहूतस्येत्युपऽहूतस्य। भक्षयामि॥३५॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 35
    Acknowledgment

    अन्वयः - हे विद्वन्नुपहूतोऽहं तेऽश्विनकृतस्य सरस्वतिकृतस्य सुत्राम्णेन्द्रेण कृतस्योपहूतस्यान्नादिकं भक्षयामि॥३५॥

    पदार्थः -
    (अश्विनकृतस्य) यौ सद्गुणमश्नुवाते तावश्विनौ तावेवाश्विनौ ताभ्यां कृतस्य। अत्राश्विन् शब्दात् स्वार्थेऽण् वृद्ध्यस्त्वभावस्त्वार्षः (ते) तव (सरस्वतिकृतस्य) विदुष्या स्त्रिया कृतस्य। अत्र स्वार्थेऽण् संज्ञाछन्दसोर्बहुलम् [अष्टा॰वा॰२.४.५४] इति पूर्वपदस्य ह्रस्वः (इन्द्रेण) विद्यैश्वर्येण राज्ञा (सुत्राम्णा) सुष्ठुतया रक्षकेण (कृतस्य) (उपहूतः) सत्कृत्याहूतः (उपहूतस्य) (भक्षयामि)॥३५॥

    भावार्थः - मनुष्यैर्विद्वदैश्वर्ययुक्तैर्जनैरनुष्ठितमनुष्ठेयम्। सुशिक्षितनिष्पादितमन्नमत्तव्यं सत्कर्त्तुः सत्कारश्च कार्यः॥३५॥

    इस भाष्य को एडिट करें
    Top