Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 64
    ऋषिः - विदर्भिर्ऋषिः देवता - अश्विसरस्वतीन्द्रा देवताः छन्दः - अनुष्टुप् स्वरः - गान्धारः
    6

    अ॒श्विना॑ भेष॒जं मधु॑ भेष॒जं नः॒ सर॑स्वती।इन्द्रे॒ त्वष्टा॒ यशः श्रिय॑ꣳ रू॒पꣳरू॑पमधुः सु॒ते॥६४॥

    स्वर सहित पद पाठ

    अ॒श्विना॑। भे॒ष॒जम्। मधु॑। भे॒ष॒जम्। नः॒। सर॑स्वती। इन्द्रेः॑। त्वष्टा॑। यशः॑। श्रिय॑म्। रू॒पꣳरूप॒मिति॑ रू॒पम्ऽरू॑पम्। अ॒धुः॒। सु॒ते ॥६४ ॥


    स्वर रहित मन्त्र

    अश्विना भेषजम्मधु भेषजन्नः सरस्वती । इन्द्रे त्वष्टा यशः श्रियँ रूपँरूपमधुः सुते ॥


    स्वर रहित पद पाठ

    अश्विना। भेषजम्। मधु। भेषजम्। नः। सरस्वती। इन्द्रेः। त्वष्टा। यशः। श्रियम्। रूपꣳरूपमिति रूपम्ऽरूपम्। अधुः। सुते॥६४॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 64
    Acknowledgment

    अन्वयः - नोऽश्विना सरस्वती त्वष्टा च विद्वांसः सुत इन्द्रे भेषजं मधु भेषजं यशः श्रियं रूपंरूपं चाऽधुः॥६४॥

    पदार्थः -
    (अश्विना) विद्याशिक्षकौ (भेषजम्) औषधम् (मधु) मधुरादिगुणोपेतम् (भेषजम्) (नः) अस्मभ्यम् (सरस्वती) विदुषी शिक्षिता माता (इन्द्रे) परमैश्वर्ये (त्वष्टा) तनूकर्त्ता (यशः) (श्रियम्) लक्ष्मीम् (रूपं रूपम्) अत्र वीप्सायां द्वित्वम् (अधुः) दध्यासुः (सुते) निष्पादिते॥६४॥

    भावार्थः - यदा मनुष्या ऐश्वर्यं प्राप्नुयुस्तदैतान्युत्तमान्यौषधानि यशः सुशोभां च निष्पादयितुं शक्नुयुः॥६४॥

    इस भाष्य को एडिट करें
    Top