Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 69
    ऋषिः - विदर्भिर्ऋषिः देवता - अश्विसरस्वतीन्द्रा देवताः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    6

    तमिन्द्रं॑ प॒शवः॒ सचा॒श्विनो॒भा सर॑स्वती।दधा॑ना अ॒भ्यनूषत ह॒विषा॑ य॒ज्ञऽइ॑न्द्रि॒यैः॥६९॥

    स्वर सहित पद पाठ

    तम्। इन्द्र॑म्। प॒श॑वः। सचा॑। अ॒श्विना॑। उ॒भा। सर॑स्वती। दधा॑नाः। अ॒भि। अ॒नू॒ष॒त॒। ह॒विषा॑। य॒ज्ञे। इ॒न्द्रि॒यैः ॥६९ ॥


    स्वर रहित मन्त्र

    तमिन्द्रम्पशवः सचाश्विनोभा सरस्वती । दधानाऽअभ्यनूषत हविषा यज्ञ इन्द्रियैः ॥


    स्वर रहित पद पाठ

    तम्। इन्द्रम्। पशवः। सचा। अश्विना। उभा। सरस्वती। दधानाः। अभि। अनूषत। हविषा। यज्ञे। इन्द्रियैः॥६९॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 69
    Acknowledgment

    अन्वयः - हे मनुष्याः! सचाश्विनोभा इन्द्रियैर्यमिन्द्रं दध्याताम्, तं सरस्वती दध्यात्, यं च पशवो दध्युस्तं हविषा दधानाः सन्तो यज्ञेऽभ्यनूषत॥६९॥

    पदार्थः -
    (तम्) (इन्द्रम्) बलादिगुणधारकं सोमम् (पशवः) गवादयः (सचा) विद्यासमवेतौ (अश्विना) वैद्यकविद्यानिपुणावध्यापकोपदेशकौ (उभा) द्वौ (सरस्वती) सत्यविज्ञानयुक्ता (दधानाः) धरतः (अभि) सर्वतः (अनूषत) प्रशंसत (हविषा) सामग्र्या (यज्ञे) (इन्द्रियैः) धनैः॥६९॥

    भावार्थः - ये धर्माचरणाद् धनेन धनं वर्द्धयन्ति, ते प्रशंसां प्राप्नुवन्ति॥६९॥

    इस भाष्य को एडिट करें
    Top