यजुर्वेद - अध्याय 21/ मन्त्र 38
ऋषिः - स्वस्त्यात्रेय ऋषिः
देवता - अश्व्यादयो देवताः
छन्दः - भुरिक् कृतिः
स्वरः - निषादः
9
होता यक्षत्सु॒रेत॑समृष॒भं नर्या॑पसं॒ त्वष्टा॑र॒मिन्द्र॑म॒श्विना॑ भि॒षजं॒ न सर॑स्वती॒मोजो॒ न जू॒तिरि॑न्द्रि॒यं वृको॒ न र॑भ॒सो भि॒षग्यशः॒ सुर॑या भेष॒जꣳ श्रि॒या न मास॑रं॒ पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑॥३८॥
स्वर सहित पद पाठहोता॑। य॒क्ष॒त्। सु॒रेत॑स॒मिति॑ सु॒ऽरेत॑सम्। ऋ॒ष॒भम्। नर्या॑पस॒मिति॒ नर्य॑ऽअपसम्। त्वष्टा॑रम्। इन्द्र॑म्। अ॒श्विना॑। भि॒षज॑म्। न। सर॑स्वतीम्। ओजः॑। न। जू॒तिः। इ॒न्द्रि॒यम्। वृकः॑। न। र॒भ॒सः। भि॒षक्। यशः॑ सुर॑या। भे॒ष॒जम्। श्रि॒या। न। मास॑रम्। पयः॑। सोमः॑। प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। घृ॒तम्। मधु॑। व्यन्तु॑। आज्य॑स्य। होतः॑। यज॑ ॥३८ ॥
स्वर रहित मन्त्र
होता यक्षत्सुरेरसमृषभन्नर्यापसन्त्वष्टारमिन्द्रमश्विना भिषजन्न सरस्वतीमोजो न जूतिरिन्द्रियँवृको न रभसो भिषग्यशः सुरया भेषजँ श्रिया न मासरम्पयः सोमः परिस्रुता घृतम्मधु व्यन्त्वाज्यस्य होतर्यज ॥
स्वर रहित पद पाठ
होता। यक्षत्। सुरेतसमिति सुऽरेतसम्। ऋषभम्। नर्यापसमिति नर्यऽअपसम्। त्वष्टारम्। इन्द्रम्। अश्विना। भिषजम्। न। सरस्वतीम्। ओजः। न। जूतिः। इन्द्रियम्। वृकः। न। रभसः। भिषक्। यशः सुरया। भेषजम्। श्रिया। न। मासरम्। पयः। सोमः। परिस्रुतेति परिऽस्रुता। घृतम्। मधु। व्यन्तु। आज्यस्य। होतः। यज॥३८॥
विषयः - पुनस्तमेव विषयमाह॥
अन्वयः - हे होतस्त्वं यथा होता सुरेतसमृषभं नर्यापसं त्वष्टारमिन्द्रमश्विना भिषजं न सरस्वतीमोजो न यक्षद् भिषग् वृको न जूतिरिन्द्रियं रभसो यशः सुरया भेषजं श्रिया न क्रियया मासरं यक्षत् तया परिस्रुता पयः सोमो घृतं मधु च व्यन्तु तैः सह वर्त्तमानस्त्वमाज्यस्य यज॥३८॥
पदार्थः -
(होता) आदाता (यक्षत्) प्राप्नुयात् (सुरेतसम्) सुष्ठु वीर्यम् (ऋषभम्) बलीवर्दम् (नर्यापसम्) नृषु साध्वपः कर्म यस्य तम् (त्वष्टारम्) दुःखच्छेत्तारम् (इन्द्रम्) परमैश्वर्यवन्तम् (अश्विना) वायुविद्युतौ (भिषजम्) वैद्यवरम् (न) इव (सरस्वतीम्) बहुविज्ञानयुक्तां वाचम् (ओजः) बलम् (न) इव (जूतिः) वेगः (इन्द्रियम्) मनः (वृकः) वज्रः। वृक इति वज्रनामसु पठितम्॥ निघं॰२।२०॥ (न) (रभसः) वेगम्। द्वितीयार्थे प्रथमा। (भिषक्) वैद्यः (यशः) धनमन्नं वा (सुरया) जलेन (भेषजम्) औषधम् (श्रिया) लक्ष्म्या (न) इव (मासरम्) संस्कृतभोज्यमन्नम् (पयः) पातुं योग्यम् (सोमः) ऐश्वर्यम्। (परिस्रुता) सर्वतोभिगतेन पुरुषार्थेन (घृतम्) (मधु) (व्यन्तु) (आज्यस्य) (होतः) (यज)॥३८॥
भावार्थः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा विद्वांसो ब्रह्मचर्येण धर्माचरणेन विद्यया सत्सङ्गादिना चाऽखिलं सुखं प्राप्नुवन्ति, तथा मनुष्यैः पुरुषार्थेन लक्ष्मी प्राप्तव्या॥३८॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal