Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 22/ मन्त्र 10
    ऋषिः - मेधातिथिर्ऋषिः देवता - सविता देवता छन्दः - गायत्री स्वरः - षड्जः
    10

    हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ह्वये। स चेत्ता॑ दे॒वता॑ प॒दम्॥१०॥

    स्वर सहित पद पाठ

    हिर॑ण्यपाणि॒मिति॒ हिर॑ण्यऽपाणिम्। ऊ॒तये॑। स॒वि॒तार॑म्। उप॑। ह्व॒ये॒। सः। चेत्ता॑। दे॒वता॑। प॒दम् ॥१० ॥


    स्वर रहित मन्त्र

    हिरण्यपाणिमूतये सवितारमुपह्वये । स चेत्ता देवता पदम् ॥


    स्वर रहित पद पाठ

    हिरण्यपाणिमिति हिरण्यऽपाणिम्। ऊतये। सवितारम्। उप। ह्वये। सः। चेत्ता। देवता। पदम्॥१०॥

    यजुर्वेद - अध्याय » 22; मन्त्र » 10
    Acknowledgment

    अन्वयः - हे मनुष्याः! यमहमूतये हिरण्यपाणिं पदं सवितारमुपह्वये स चेत्ता देवतास्तीति यूयं विजानीत॥१०॥

    पदार्थः -
    (हिरण्यपाणिम्) हिरण्यानि सूर्य्यादीनि तेजांसि पाणौ स्तवने यस्य तम् (ऊतये) रक्षणाद्याय (सवितारम्) सकलैश्वर्य्यप्रापकम् (उप) (ह्वये) ध्यानयोगेनाह्वये (सः) (चेत्ता) सम्यग्ज्ञानस्वरूपत्वेन सत्याऽसत्यज्ञापकः (देवता) उपासनीय इष्टदेव एव (पदम्) प्राप्तुमर्हम्॥१०॥

    भावार्थः - मनुष्यैरितः पूर्वमन्त्रार्थस्य विवरणं वेदितव्यम्। चेतनस्वरूपस्य परमात्मन उपासनां विहाय कस्याप्यन्यस्य ज[स्योपासना कदापि नैव कार्या, नहि ज[मुपासितं सद्धानिलाभकारकं रक्षकं च भवति, तस्माच्चेतनैः सर्वैर्जीवैश्चेतनो जगदीश्वर एवोपासनीयो नेतरो ज[त्वादिगुणयुक्तः पदार्थः॥१०॥

    इस भाष्य को एडिट करें
    Top