Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 23/ मन्त्र 23
    ऋषिः - प्रजापतिर्ऋषिः देवता - राजप्रजे देवते छन्दः - बृहती स्वरः - मध्यमः
    6

    य॒कोऽस॒कौ श॑कुन्त॒कऽआ॒हल॒गिति॒ वञ्च॑ति। विव॑क्षतऽइव ते॒ मुख॒मध्व॑र्यो॒ मा न॒स्त्वम॒भि भा॑षथाः॥२३॥

    स्वर सहित पद पाठ

    य॒कः। अ॒स॒कौ। श॒कु॒न्त॒कः। आ॒हल॑क्। इति॑। वञ्च॑ति। विव॑क्षतऽइ॒वेति॒ विव॑क्षतःऽइव। ते॒। मुख॑म्। अध्व॑र्यो॒ऽइत्यध्व॑र्यो। मा। नः॒। त्वम्। अ॒भि। भा॒ष॒थाः॒ ॥२३ ॥


    स्वर रहित मन्त्र

    यकोसकौ शकुन्तकऽआहलगिति वञ्चति । विवक्षतऽइव ते मुखमध्वर्या मा नस्त्वमभि भाषथाः ॥


    स्वर रहित पद पाठ

    यकः। असकौ। शकुन्तकः। आहलक्। इति। वञ्चति। विवक्षतऽइवेति विवक्षतःऽइव। ते। मुखम्। अध्वर्योऽइत्यध्वर्यो। मा। नः। त्वम्। अभि। भाषथाः॥२३॥

    यजुर्वेद - अध्याय » 23; मन्त्र » 23
    Acknowledgment

    अन्वयः - हे अध्वर्यो! त्वं नो माभिभाषथा मिथ्याभाषणं विवक्षत इव ते मुखं मा भवतु। यद्येवं यकोऽसकौ करिष्यसि, तर्हि शकुन्तक इव राजाऽऽहलगिति न वञ्चति॥२३॥

    पदार्थः -
    (यकः) यः (असकौ) असौ राजा (शकुन्तकः) निर्बलः पक्षीव (आहलक्) समन्ताद् विलिखितं यथा स्यात् तथा (इति) (वञ्चति) वञ्चितो भवति (विवक्षत इव) वक्तुमिच्छोरिव (ते) तव (मुखम्) आस्यम् (अध्वर्यो) योऽध्वरमिवाचरति तत्सम्बुद्धौ (मा) (नः) अस्मान् (त्वम्) (अभि) (भाषथाः) वदेः॥२३॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। राजा कदाचिन्मिथ्याप्रतिज्ञः परुषवादी न स्यान्न कंचिद् वञ्चयेत्। यद्ययमन्यायं कुर्यात् तर्हि स्वयमपि प्रजाभिर्वञ्चितः स्यात्॥२३॥

    इस भाष्य को एडिट करें
    Top