Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 24/ मन्त्र 34
    ऋषिः - प्रजापतिर्ऋषिः देवता - अग्न्यादयो देवताः छन्दः - स्वराट् शक्वरी स्वरः - धैवतः
    7

    सु॒प॒र्णः पा॑र्ज॒न्यऽआ॒तिर्वा॑ह॒सो दर्वि॑दा॒ ते वा॒यवे॒ बृह॒स्पत॑ये वा॒चस्पत॑ये पैङ्गरा॒जोऽल॒जऽआ॑न्तरि॒क्षः प्ल॒वो म॒द्गुर्मत्स्य॒स्ते न॑दीप॒तये॑ द्यावापृथि॒वीयः॑ कू॒र्मः॥३४॥

    स्वर सहित पद पाठ

    सु॒प॒र्ण इति॑ सुऽप॒र्णः। पा॒र्ज॒न्यः। आ॒तिः। वा॒ह॒सः। दर्वि॑देति॒ दर्वि॑ऽदा। ते। वा॒यवे॑। बृह॒स्पत॑ये। वा॒चः। पत॑ये। पै॒ङ्ग॒रा॒ज इति॑ पैङ्गऽरा॒जः। अ॒ल॒जः। आ॒न्त॒रि॒क्षः। प्ल॒वः। म॒द्गुः। मत्स्यः॑। ते। न॒दी॒प॒तय॒ऽइति॑ नदीऽप॒तये॑। द्या॒वा॒पृ॒थि॒वीयः॑। कू॒र्मः ॥३४ ॥


    स्वर रहित मन्त्र

    सुपर्णः पार्जन्यऽआतिर्वाहसो दर्विदा ते वायवे बृहस्पतये वाचस्पतये पैङ्गराजोलजऽआन्तरिक्षः प्लवो मद्गुर्मत्स्यस्ते नदीपतये द्यावापृथिवीयः कूर्मः ॥


    स्वर रहित पद पाठ

    सुपर्ण इति सुऽपर्णः। पार्जन्यः। आतिः। वाहसः। दर्विदेति दर्विऽदा। ते। वायवे। बृहस्पतये। वाचः। पतये। पैङ्गराज इति पैङ्गऽराजः। अलजः। आन्तरिक्षः। प्लवः। मद्गुः। मत्स्यः। ते। नदीपतयऽइति नदीऽपतये। द्यावापृथिवीयः। कूर्मः॥३४॥

    यजुर्वेद - अध्याय » 24; मन्त्र » 34
    Acknowledgment

    अन्वयः - हे मनुष्याः! युष्माभिर्यः सुपर्णः स पार्जन्यो य आतिर्वाहसो दर्विदा च ते वायवे पैङ्गराजो बृहस्पतये वाचस्पतयेऽलज आन्तरिक्षो ये प्लवो मद्गुर्मत्स्यश्च ते नदीपतये यः कूर्मः स द्यावापृथिवीयश्च विज्ञेयाः॥३४॥

    पदार्थः -
    (सुपर्णः) शोभनपतनः (पार्जन्यः) पर्जन्यवद्गुणः (आतिः) पक्षिविशेषः (वाहसः) अजगरः सर्पविशेषः (दर्विदा) काष्ठछित् पक्षिविशेषः (ते) (वायवे) (बृहस्पतये) बृहतां पालकाय (वाचः) (पतये) पालकाय (पैङ्गराजः) पक्षिविशेषः (अलजः) पक्षिविशेषः (आन्तरिक्षः) अन्तरिक्षदेवताकः (प्लवः) वर्त्तिका (मद्गुः) जलकाकः (मत्स्यः) (ते) (नदीपतये) समुद्राय (द्यावापृथिवीयः) प्रकाशभूमिदेवताकः (कूर्मः) कच्छपः॥३४॥

    भावार्थः - ये मेघादितुल्यगुणाः पशुपक्षिविशेषाः सन्ति, ते कार्योपयोगाय नियोजनीयाः॥३४॥

    इस भाष्य को एडिट करें
    Top