यजुर्वेद - अध्याय 26/ मन्त्र 18
ऋषिः - महीयव ऋषिः
देवता - विद्वान् देवता
छन्दः - विराड्गायत्री
स्वरः - षड्जः
8
ए॒ना विश्वा॑न्य॒र्यऽआ द्यु॒म्नानि॒ मानु॑षाणाम्। सिषा॑सन्तो वनामहे॥१८॥
स्वर सहित पद पाठए॒ना। विश्वा॑नि। अ॒र्यः। आ। द्यु॒म्नानि॑। मानु॑षाणाम्। सिषा॑सन्तः। सिसा॑सन्त॒ऽइति॒ सिसा॑ऽसन्तः। व॒ना॒म॒हे॒ ॥१८ ॥
स्वर रहित मन्त्र
एना विश्वान्यर्यऽआ द्युम्नानि मानुषाणाम् । सिषासन्तो वनामहे ॥
स्वर रहित पद पाठ
एना। विश्वानि। अर्यः। आ। द्युम्नानि। मानुषाणाम्। सिषासन्तः। सिसासन्तऽइति सिसाऽसन्तः। वनामहे॥१८॥
विषयः - ईश्वरः कथमुपास्य इत्याह॥
अन्वयः - योऽर्यो मानुषाणमेना विश्वानि द्युम्नानि शास्ति तं सिषासन्तो वयं सुखान्यावनामहे॥१८॥
पदार्थः -
(एना) एनानि (विश्वानि) सर्वाणि (अर्यः) ईश्वरः (आ) (द्युम्नानि) प्रदीप्तानि यशांसि (मानुषाणाम्) मनुष्याणाम् (सिषासन्तः) सेवितुमिच्छन्तः (वनामहे) याचामहे॥१८॥
भावार्थः - येनेश्वरेण मनुष्याणां सुखाय धनानि वेदा भोज्यादीनि वस्तूनि चोत्पादितानि तस्यैवोपासना सर्वैर्मनुष्यैः सदा कर्त्तव्या॥१८॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal