Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 26/ मन्त्र 22
    ऋषिः - मेधातिथिर्ऋषिः देवता - सोमो देवता छन्दः - गायत्री स्वरः - षड्जः
    9

    द्र॒वि॒णो॒दाः पि॑पीषति जु॒होत॒ प्र च॑ तिष्ठत।ने॒ष्ट्रादृ॒तुभि॑रिष्यत॥२२॥

    स्वर सहित पद पाठ

    द्र॒वि॒णो॒दा इति॑ द्रविणः॒ऽदाः। पि॒पी॒ष॒ति॒। जु॒होत॑। प्र। च॒। ति॒ष्ठ॒त॒। ने॒ष्ट्रात्। ऋ॒तुभि॒रित्यृ॒तुऽभिः॑। इ॒ष्य॒त॒ ॥२२ ॥


    स्वर रहित मन्त्र

    द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत । नेष्ट्रादृतुभिरिष्यत ॥


    स्वर रहित पद पाठ

    द्रविणोदा इति द्रविणःऽदाः। पिपीषति। जुहोत। प्र। च। तिष्ठत। नेष्ट्रात्। ऋतुभिरित्यृतुऽभिः। इष्यत॥२२॥

    यजुर्वेद - अध्याय » 26; मन्त्र » 22
    Acknowledgment

    अन्वयः - हे मनुष्या यथा द्रविणोदा ऋतुभिः सह नेष्ट्राद् रसं पिपीषति तथा यूयं रसमिष्यत जुहोत प्रतिष्ठत च॥२२॥

    पदार्थः -
    (द्रविणोदाः) यो द्रविणो धनं यशो वा ददाति सः (पिपीषति) पातुमिच्छति (जुहोत) (प्र,च) (तिष्ठत) प्रतिष्ठां लभध्वम् (नेष्ट्रात्) विनयात् (ऋतुभिः) वसन्तादिभिः सह (इष्यत) प्राप्नुत॥२२॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे विद्वांसो मनुष्याः! यथा सद्वैद्याः पथ्येनोत्तमविद्यया स्वयमरोगाः सन्तोऽन्यान् रोगात् पृथक्कृत्य प्रशंसां लभन्ते तथैव युष्माभिरप्याचरणीयम्॥२२॥

    इस भाष्य को एडिट करें
    Top