यजुर्वेद - अध्याय 3/ मन्त्र 31
ऋषिः - सप्तधृतिर्वारुणिर्ऋषिः
देवता - आदित्यो देवता
छन्दः - विराट् गायत्री,
स्वरः - षड्जः
7
महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः। दु॒रा॒धर्षं॒ वरु॑णस्य॥३१॥
स्वर सहित पद पाठमहि॑। त्री॒णाम्। अवः॑। अ॒स्तु॒। द्यु॒क्षम्। मि॒त्रस्य॑। अ॒र्य॒म्णः। दु॒रा॒धर्ष॒मिति॑ दुःऽआ॒धर्ष॑म्। वरु॑णस्य ॥३१॥
स्वर रहित मन्त्र
महि त्रीणामवो स्तु द्युक्षम्मित्रस्यार्यम्णः । दुराधर्षँवरुणस्य ॥
स्वर रहित पद पाठ
महि। त्रीणाम्। अवः। अस्तु। द्युक्षम्। मित्रस्य। अर्यम्णः। दुराधर्षमिति दुःऽआधर्षम्। वरुणस्य॥३१॥
विषयः - पुनः स किमर्थः प्रार्थनीय इत्युपदिश्यते॥
अन्वयः - हे ब्रह्मणस्पते! तव कृपया मित्रस्यार्यम्णो वरुणस्य च त्रीणां सकाशान्नोऽस्माकं द्युक्षं दुराधर्षं महदवोऽस्तु॥३१॥
पदार्थः -
(महि) महत् (त्रीणाम्) त्रयाणां सकाशात्। अत्र वा छन्दसि सर्वे विधयो भवन्तीति [अष्टा॰भा॰वा॰१.४.९] त्रेस्त्रय [अष्टा॰६.३.४६] इति त्रयादेशो न। (अवः) रक्षणादिकम् (अस्तु) भवतु (द्युक्षम्) द्यौर्नीतिः प्रकाशः क्षियति निवसति यस्मिंस्तत् (मित्रस्य) बाह्याभ्यन्तरस्थस्य प्राणस्य (अर्यम्णः) य ऋच्छति नियच्छत्याकर्षणेन पृथिव्यादीन् स सूर्यलोकस्तस्य। श्वन्नुक्षन्पूषन्॰ (उणा॰१.१५९) अनेनायं निपातितः। (दुराधर्षम्) दुःखेनाधर्षितुं योग्यं दृढम् (वरुणस्य) वायोर्जलस्य वा। वरुण इति पदनामसु पठितम्। (निघं॰५.४) अनेन प्राप्तिसाधनो गृह्यते। अयं मन्त्रः (शत॰२.३.४.३७) व्याख्यातः॥३१॥
भावार्थः - अत्र पूर्वस्मान्मन्त्राद् ‘ब्रह्मणस्पते नः’ इति पदद्वयानुवृत्तिर्विज्ञेया। मनुष्यैस्सर्वेभ्यः पदार्थेभ्यः स्वस्यान्येषां च न्यायेन रक्षणं कृत्वा राज्यपालनं कार्यमिति॥३१॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal