Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 27
    ऋषिः - अत्रिर्ऋषिः देवता - दम्पती देवते छन्दः - भूरिक् प्राजापत्या अनुष्टुप्,स्वराट आर्षी बृहती, स्वरः - मध्यमः, गान्धारः
    5

    अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः। अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽयासिष॒मव॒ मर्त्यै॒र्मर्त्य॑कृतं पु॒रु॒राव्णो॑ देव रि॒षस्पा॑हि। दे॒वाना॑ स॒मिद॑सि॥२७॥

    स्वर सहित पद पाठ

    अव॑भृ॒थेत्यव॑ऽभृथ। नि॒चु॒म्पु॒णेति॑ निऽचुम्पुण। नि॒चे॒रुरिति॑ निऽचे॒रुः। अ॒सि॒। नि॒चु॒म्पु॒ण इति॑ निऽचुम्पु॒णः। अव॑। दे॒वैः। दे॒वकृ॑त॒मिति॑ दे॒वऽकृ॑तम्। ए॑नः। अ॒या॒सि॒ष॒म्। अव॑। मर्त्यैः॑। मर्त्य॑कृत॒मिति॒ मर्त्य॑कृतम्। पु॒रु॒राव्ण॒ इति॑ पुरु॒ऽराव्णः॑। दे॒व॒। रि॒षः। पा॒हि॒। दे॒वाना॑म्। स॒मिदिति॑ स॒म्ऽइत्। अ॒सि॒ ॥२७॥


    स्वर रहित मन्त्र

    अवभृथ निचुम्पुण निचेरुरसि निचुम्पुणः । अव देवैर्देवकृतमेनो यासिषमव मर्त्यैर्मर्त्यकृतम्पुरुराव्णो देव रिषस्पाहि । देवानाँ समिदसि ॥


    स्वर रहित पद पाठ

    अवभृथेत्यवऽभृथ। निचुम्पुणेति निऽचुम्पुण। निचेरुरिति निऽचेरुः। असि। निचुम्पुण इति निऽचुम्पुणः। अव। देवैः। देवकृतमिति देवऽकृतम्। एनः। अयासिषम्। अव। मर्त्यैः। मर्त्यकृतमिति मर्त्यकृतम्। पुरुराव्ण इति पुरुऽराव्णः। देव। रिषः। पाहि। देवानाम्। समिदिति सम्ऽइत्। असि॥२७॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 27
    Acknowledgment

    अन्वयः - हे अवभृथ निचुम्पुण पते! त्वं निचुम्पुणो निचेरुरसि देवानां समिदसि। हे देव! देवैर्मर्त्यैः सह वर्त्तमानस्त्वं यद्देवकृतमेनोऽपराधमहमयासिषं तस्मात् पुरुराव्णो रिषो मां पाहि दूरे रक्ष॥२७॥

    पदार्थः -
    (अवभृथ) यो निषेकेण गर्भं बिभर्त्ति तत्सम्बुद्धौ (निचुम्पुण) नितरां मन्दगामिन्! (निचेरुः) यो धर्म्मेण द्रव्याणि नित्यं चिनोति (निचुम्पुणः) नित्यं कमनीयः (अव) अर्वागर्थे (देवैः) विद्वद्भिः (देवकृतम्) कामिभिरनुष्ठितम् (एनः) दुष्टाचरणम् (अयासिषम्) प्राप्तवती (अव) निषेधे (मर्त्यैः) मृत्युधर्म्मैः (मर्त्यकृतम्) साधारणमनुष्याचरितम् (पुरुराव्णः) पुरवो बहवो राव्णोऽपराधा दानशीला यस्मिन् तस्मात् (देव) विजिगाषो! (रिषः) धर्म्मस्य हिंसनात् (पाहि) रक्ष (देवानाम्) विदुषां मध्ये (समित्) सम्यग्दीप्तः (असि)। अयं मन्त्रः (शत॰ ४। ४। १। २२-२३॥ तथा ४। ५। १। १-१६॥ तथा ४। ५। २। १-३) व्याख्यातः॥२७॥

    भावार्थः - स्त्री स्वपतिं नित्यं प्रार्थयेद् यथाहं सेव्यं प्रसन्नचित्तं त्वामनुदिनमिच्छामि, तथा त्वमपि मामिच्छ, स्वबलेन रक्ष च। यतोऽहं कस्यचिद् दुष्टाचरणशीलाज्जनाद् दुश्चरितं कथंचिन्न प्राप्नुयाम्, भवांश्च नाप्नुयात्॥२७॥

    इस भाष्य को एडिट करें
    Top