Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 48
    ऋषिः - देवा ऋषयः देवता - प्रजापतयो देवताः छन्दः - याजुषी पङ्क्ति,याजुषी जगती,साम्नी बृहती, स्वरः - धैवतः, मध्यमः
    6

    व्रेशी॑नां त्वा॒ पत्म॒न्नाधू॑नोमि। कुकू॒नना॑नां त्वा॒ पत्म॒न्नाधू॑नोमि। भ॒न्दना॑नां त्वा॒ पत्म॒न्नाधू॑नोमि म॒दिन्त॑मानां त्वा॒ पत्म॒न्नाधू॑नोमि म॒धुन्त॑मानां त्वा॒ पत्म॒न्नाधू॑नोमि शु॒क्रं त्वा॑ शु॒क्रऽआधू॑नो॒म्यह्नो॑ रू॒पे सूर्य॑स्य र॒श्मिषु॑॥४८॥

    स्वर सहित पद पाठ

    व्रेशी॑नाम्। त्वा। पत्म॑न्। आ। धू॒नो॒मि॒। कुकू॒नना॑नाम्। त्वा॒। पत्म॑न्। आ। धू॒नो॒मि॒। भ॒न्दना॑नाम्। त्वा॒। पत्म॑न्। आ। धू॒नो॒मि॒। म॒दिन्त॑माना॒मिति॑ म॒दिन्ऽत॑मानाम्। त्वा॒। पत्म॑न्। आ। धू॒नो॒मि॒। म॒धुन्त॑माना॒मिति॑ म॒धुन्ऽत॑मानाम्। त्वा॒। पत्म॑न्। आ। धू॒नो॒मि॒। शु॒क्रम्। त्वा॒। शु॒क्रे। आ। धू॒नो॒मि॒। अह्नः॑। रू॒पे। सूर्य्य॑स्य। र॒श्मिषु॑ ॥४८॥


    स्वर रहित मन्त्र

    व्रेशीनान्त्वा पत्मन्नाधूनोमि कुकाननानान्त्वा पत्मन्ना धूनोमि भन्दनानान्त्वा पत्मन्ना धूनोमि मदिन्तमानान्त्वा पत्मन्ना धूनोमि मधुन्तमानान्त्वा पत्मन्ना धूनोमि शुक्रन्त्वा शुक्र ऽआ धूनोम्यह्नो रूपे सूर्यस्य रश्मिषु ॥


    स्वर रहित पद पाठ

    व्रेशीनाम्। त्वा। पत्मन्। आ। धूनोमि। कुकूननानाम्। त्वा। पत्मन्। आ। धूनोमि। भन्दनानाम्। त्वा। पत्मन्। आ। धूनोमि। मदिन्तमानामिति मदिन्ऽतमानाम्। त्वा। पत्मन्। आ। धूनोमि। मधुन्तमानामिति मधुन्ऽतमानाम्। त्वा। पत्मन्। आ। धूनोमि। शुक्रम्। त्वा। शुक्रे। आ। धूनोमि। अह्नः। रूपे। सूर्य्यस्य। रश्मिषु॥४८॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 48
    Acknowledgment

    अन्वयः - हे पत्मन्! व्रेशीनामपामिव वर्त्तमानानां पत्नीनां मध्ये व्यभिचारेण वर्तमानं त्वाऽहमाधूनोमि। हे पत्मन्! कुकूननानां समीपे मौर्ख्येण वर्तमानं त्वाहमाधूनोमि। हे पत्मन्! भन्दनानां सन्निधावधर्मचारित्वेन प्रवृत्तं त्वाहमाधूनोमि। हे पत्मन्! मदिन्तमानां सनीडे दुःखदायित्वेन चरन्तं त्वाहमाधूनोमि। हे पत्मन्! मधुन्तमानां समर्यादं कुचारिणं त्वाहमाधूनोमि। हे पत्मन्नह्नो रूपे सूर्यस्य रश्मिषु च गृहे सङ्गतिमभीप्सुं शुक्रं त्वा शुक्रे आधूनोमि॥४८॥

    पदार्थः -
    (व्रेशीनाम्) दिव्यानामपामिव निर्मलविद्यासुशीलव्याप्तानाम्, एता वै दैवीरापस्तद्याश्चैव दैवीरापो याश्चेमा मानुष्यस्ताभिरेवास्मिन्नेतदुभयीभी रसं दधाति। (शत॰११।५।९। ८) (त्वा) त्वाम् (पत्मन्) धर्मात् पतनशील (आ) (धूनोमि) समन्तात् कम्पयामि, अत्रान्तर्गतो णिच् (कुकूननानाम्) भृशं शब्दविद्यया नम्राणाम्, कुङ् शब्दे इत्यस्माद् यङि गुणाभावेऽभ्यस्ततः कुकूपपदान्नम धातोरौणादिको नक् प्रत्ययश्च ततः षष्ठीबहुवचनम् (त्वा) (पत्मन्) (आ) (धूनोमि) (भन्दनानाम्) कल्याणचरणानाम् (त्वा) (पत्मन्) (आ) (धूनोमि) (मदिन्तमानाम्) अतिशयितानन्दितानां परस्त्रीणां समीपे (त्वा) (पत्मन्) चञ्चलचेतः (आ) (धूनोमि) (मधुन्तमानाम्) अतिशयेन माधुर्यगुणोपेतानाम्, वा छन्दासि सर्वे विषयो भवन्ति। (अष्टा॰भा॰वा॰१।४।९) इति नुडागमः (त्वा) (पत्मन्) (आ) (धूनोमि) (शुक्रम्) शुद्धं वीर्यवन्तम् (त्वा) (शुक्रे) (आ) (धूनोमि) (अह्नः) दिनस्य (रूपे) (सूर्यस्य) (रश्मिषु)। अयं मन्त्रः (शत॰ ११। ५। ९। ८-९) व्याख्यातः॥४५॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सूर्यस्य रश्मीन् प्राप्य जगत्पदार्थाः शुद्धा जायन्ते, तथैव दुराचारी सुशिक्षां दण्डं च प्राप्य पवित्रो भवति, गृहस्थैरत्यन्तदुष्टो व्यभिचारव्यवहारः सदैव निर्वतनीयः, कुतोऽस्य शरीरात्मबलनाशकत्वेन धर्मार्थकाममोक्षाणां प्रतिबन्धकत्वात्॥४८॥

    इस भाष्य को एडिट करें
    Top