Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1009
ऋषिः - जमदग्निर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
शु꣣भ्र꣡मन्धो꣢꣯ दे꣣व꣡वा꣢तम꣣प्सु꣢ धौ꣣तं꣡ नृभिः꣢꣯ सु꣣त꣢म् । स्व꣡द꣢न्ति꣣ गा꣢वः꣣ प꣡यो꣢भिः ॥१००९॥
स्वर सहित पद पाठशु꣣भ्र꣢म् । अ꣡न्धः꣢꣯ । दे꣣व꣡वा꣢तम् । दे꣣व꣢ । वा꣣तम् । अप्सु꣢ । धौ꣣त꣢म् । नृ꣡भिः꣢꣯ । सु꣣त꣢म् । स्व꣡द꣢꣯न्ति । गा꣡वः꣢꣯ । प꣡यो꣢꣯भिः ॥१००९॥
स्वर रहित मन्त्र
शुभ्रमन्धो देववातमप्सु धौतं नृभिः सुतम् । स्वदन्ति गावः पयोभिः ॥१००९॥
स्वर रहित पद पाठ
शुभ्रम् । अन्धः । देववातम् । देव । वातम् । अप्सु । धौतम् । नृभिः । सुतम् । स्वदन्ति । गावः । पयोभिः ॥१००९॥
सामवेद - मन्त्र संख्या : 1009
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 16; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 1; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनरपि स एव विषय उच्यते।
पदार्थः -
प्रथमः—सोमौषधिरसविषये। (देववातम्) देवेन सूर्येण मेघेन वा वातं वृद्धिं गमितम्, (अप्सु) उदकेषु (धौतम्) प्रक्षालितम्। [धावु गतिशुद्ध्योः।] (नृभिः) ऋत्विग्जनैः (सुतम्) अभिषुतम् (शुभ्रम् अन्धः) स्वच्छं सोमरसम् (गावः) धेनवः (पयोभिः) स्वकीयैः दुग्धैः (स्वदन्ति) स्वादयन्ति ॥ द्वितीयः—ज्ञानरसविषये। (देववातम्) देवेन (विदुषा) आचार्येण प्रेरितम्, (अप्सु) कर्मसु, आचरणेषु (धौतम्) प्रापितम्। [धावुरत्र गत्यर्थः।] (नृभिः) इतरैः नेतृभिः मार्गदर्शकैः गुरुजनैः (सुतम्) उत्पादितम् (शुभ्रम् अन्धः) स्वच्छं ज्ञानरसम् (गावः) वेदवाचः (पयोभिः) ओङ्कारलक्षणैः दुग्धैः (स्वदन्ति) मधुरं कुर्वन्ति ॥२॥ अत्र श्लेषालङ्कारः ॥२॥
भावार्थः - भौतिकं ज्ञानमध्यात्मज्ञानेन सहचरितं महाकल्याणकरं जायते ॥२॥
टिप्पणीः -
१. ऋ० ९।६२।५, ‘म॒प्सु धू॒तो नृभिः॑ सुतः’ इति द्वितीयः पादः।