Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1049
ऋषिः - हिरण्यस्तूप आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
स꣢ना꣣ द꣡क्ष꣢मु꣣त꣢꣫ क्रतु꣣म꣡प꣢ सोम꣣ मृ꣡धो꣢ जहि । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०४९॥
स्वर सहित पद पाठस꣡न꣢꣯ । द꣡क्ष꣢꣯म् । उ꣣त꣢ । क्र꣡तु꣢꣯म् । अ꣡प꣢꣯ । सो꣣म । मृ꣡धः꣢꣯ । ज꣣हि । अ꣡थ꣢꣯ । नः꣣ । व꣡स्य꣢꣯सः । कृ꣣धि ॥१०४९॥
स्वर रहित मन्त्र
सना दक्षमुत क्रतुमप सोम मृधो जहि । अथा नो वस्यसस्कृधि ॥१०४९॥
स्वर रहित पद पाठ
सन । दक्षम् । उत । क्रतुम् । अप । सोम । मृधः । जहि । अथ । नः । वस्यसः । कृधि ॥१०४९॥
सामवेद - मन्त्र संख्या : 1049
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनर्जीवात्मन एव विषय उच्यते।
पदार्थः -
हे (सोम) ऐश्वर्योत्पादनसमर्थ जीवात्मन् ! त्वम् (दक्षम्) बलम् (उत) अपि च (क्रतुम्) कर्म प्रज्ञानं च (सन) संभजस्व। (मृधः) संग्रामकारिणः हिंसकान् कामक्रोधादीन् आन्तरान् बाह्यांश्च शत्रून् (अप जहि) विनाशय। (अथ) एवं स्वोत्कर्षसम्पादनानन्तरम् (नः) अस्मानपि (वस्यसः) अतिशयेन वसुमतः (कृधि) कुरु ॥३॥
भावार्थः - मनुष्यः स्वयं बलं कर्म प्रज्ञानं सर्वमप्यैश्वर्यं सञ्चित्य विघ्नकारिणश्च पराजित्य सर्वाग्रणीर्भूत्वाऽन्यानप्युपकुर्यात् ॥३॥
टिप्पणीः -
१. ऋ० ९।४।३।