Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1051
ऋषिः - हिरण्यस्तूप आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

त्व꣡ꣳ सूर्ये꣢꣯ न꣣ आ꣡ भ꣢ज꣣ त꣢व꣣ क्र꣢त्वा꣣ त꣢वो꣣ति꣡भिः꣢ । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०५१॥

स्वर सहित पद पाठ

त्वम् । सू꣡र्ये꣢꣯ । नः꣣ । आ꣢ । भ꣣ज । त꣡व꣢꣯ । क्र꣡त्वा꣢꣯ । त꣡व꣢꣯ । ऊ꣣ति꣡भिः꣢ । अ꣡थ꣢꣯ । नः꣣ । व꣡स्य꣢꣯सः । कृ꣣धि ॥१०५१॥


स्वर रहित मन्त्र

त्वꣳ सूर्ये न आ भज तव क्रत्वा तवोतिभिः । अथा नो वस्यसस्कृधि ॥१०५१॥


स्वर रहित पद पाठ

त्वम् । सूर्ये । नः । आ । भज । तव । क्रत्वा । तव । ऊतिभिः । अथ । नः । वस्यसः । कृधि ॥१०५१॥

सामवेद - मन्त्र संख्या : 1051
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 2; सूक्त » 1; मन्त्र » 5
Acknowledgment

पदार्थः -
हे सोम जगत्स्रष्टः परमात्मन् राष्ट्रस्रष्टः राजन् वा ! (त्वम् तव क्रत्वा) त्वदीयेन कर्मणा प्रज्ञानेन वा, (तव ऊतिभिः) त्वदीयाभिः रक्षाभिश्च (सूर्ये) सूर्यलोके इव प्रकाशमये सर्वोन्नतियुक्ते राष्ट्रे (नः) अस्मान् (आ भज) भागिनः कुरु। (अथ) तदनन्तरं च (नः) अस्मान् (वस्यसः) अतिशयेन वसुमतः (कृधि) कुरु ॥५॥

भावार्थः - यदि परमात्मनः कृपा नृपतेरुद्योगः प्रजाजनानां पुरुषार्थश्च स्यात् तर्हि राष्ट्रे सूर्यसम उन्नतिप्रकाशः सर्वत्र प्रसरेत् ॥५॥

इस भाष्य को एडिट करें
Top