Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1078
ऋषिः - कश्यपो मारीचः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
र꣡सं꣢ ते मि꣣त्रो꣡ अ꣢र्य꣣मा꣡ पिब꣢꣯न्तु꣣ व꣡रु꣢णः कवे । प꣡व꣢मानस्य म꣣रु꣡तः꣢ ॥१०७८॥
स्वर सहित पद पाठर꣡स꣢꣯म् । ते꣣ । मित्रः꣢ । मि꣣ । त्रः꣢ । अ꣣र्यमा꣢ । पि꣡ब꣢꣯न्तु । व꣡रु꣢꣯णः । क꣣वे । प꣡व꣢꣯मानस्य । म꣣रु꣡तः꣢ ॥१०७८॥
स्वर रहित मन्त्र
रसं ते मित्रो अर्यमा पिबन्तु वरुणः कवे । पवमानस्य मरुतः ॥१०७८॥
स्वर रहित पद पाठ
रसम् । ते । मित्रः । मि । त्रः । अर्यमा । पिबन्तु । वरुणः । कवे । पवमानस्य । मरुतः ॥१०७८॥
सामवेद - मन्त्र संख्या : 1078
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 1; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि स एव विषय उच्यते।
पदार्थः -
हे (कवे) मेधाविन् विद्वद्वर आचार्य ! (पवमानस्य ते) शिष्याणां जीवनानि पवित्रीकुर्वतः तव (रसम्) विद्यारसम् (मित्रः) सर्वैः सह मित्रवद् व्यवहर्ता शिष्यः, (अर्यमा) शत्रुनिग्रहकर्ता शिष्यः। [अर्यमा अरीन् नियच्छति। निरु० ११।२३।] (वरुणः) स्वदोषनिवारणाय प्रयत्नशीलः शिष्यः, (मरुतः) अन्ये च शिष्याः (पिबन्तु) आस्वादयन्तु ॥३॥
भावार्थः - शिष्याणां विभिन्ना योग्यता विभिन्ना गुणाश्च भवन्ति। तेषां योग्यतानुसारं तद्विकासो गुरुभिः कर्त्तव्यः। यस्मिन् यस्मिन् ब्राह्मणत्व-क्षत्रियत्व- वैश्यत्वादिगुणाः सन्ति स तदनुरूपविद्यादानेन तत्तद्वर्णाधिकारी कार्यः ॥३॥
टिप्पणीः -
१. ऋ० ९।६४।२४, ‘पिबन्तु’ इत्यत्र ‘पिब॑न्ति॒’।