Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1081
ऋषिः - अमहीयुराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
8
ए꣣त꣢मु꣣ त्यं꣢꣫ दश꣣ क्षि꣡पो꣢ मृ꣣ज꣢न्ति꣣ सि꣡न्धु꣢मातरम् । स꣡मा꣢दि꣣त्ये꣡भि꣢रख्यत ॥१०८१॥
स्वर सहित पद पाठए꣣त꣢म् । उ꣣ । त्य꣢म् । द꣡श꣢꣯ । क्षि꣡पः꣢꣯ । मृ꣣ज꣡न्ति꣢ । सि꣡न्धु꣢꣯मातरम् । सि꣡न्धु꣢꣯ । मा꣣तरम् । स꣢म् । आ꣣दित्ये꣡भिः꣢ । आ꣣ । दित्ये꣡भिः꣢ । अ꣡ख्यत ॥१०८१॥
स्वर रहित मन्त्र
एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् । समादित्येभिरख्यत ॥१०८१॥
स्वर रहित पद पाठ
एतम् । उ । त्यम् । दश । क्षिपः । मृजन्ति । सिन्धुमातरम् । सिन्धु । मातरम् । सम् । आदित्येभिः । आ । दित्येभिः । अख्यत ॥१०८१॥
सामवेद - मन्त्र संख्या : 1081
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ जीवात्मविषयो वर्ण्यते।
पदार्थः -
(सिन्धुमातरम्) सिन्धुः आनन्दरसस्यन्दिनी जगदम्बा माता यस्य तथाविधम् (एतम् उ त्यम्) एतं खलु तम् सोमं जीवात्मानम् (दश क्षिपः) इन्द्रियदोषाणां प्रक्षेप्तारः दश प्राणाः (मृजन्ति) अलङ्कुर्वन्ति। एष सोमः जीवात्मा (आदित्येभिः) आदित्यवद् ज्ञानप्रकाशेन प्रकाशितैः गुरुजनैः (सम् अख्यत) विद्याप्रकाशं लभते ॥१॥
भावार्थः - प्राणैः सहचरित एव मनुष्यस्यात्मा देहं जीवयति देहाधिष्ठातृत्वं च करोति। गुरूणामुपदेशं विना स स्वयमेव ज्ञानवान् न भवति ॥१॥
टिप्पणीः -
१. ऋ० ९।६१।७।