Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1084
ऋषिः - शुनःशेप आजीगर्तिः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
रे꣣व꣡ती꣢र्नः सध꣣मा꣢द꣣ इ꣡न्द्रे꣢ सन्तु तु꣣वि꣡वा꣢जाः । क्षु꣣म꣢न्तो꣣ या꣢भि꣣र्म꣡दे꣢म ॥१०८४॥
स्वर सहित पद पाठरे꣣व꣡तीः꣢ । नः꣣ । सधमा꣡दे꣢ । स꣣ध । मा꣡दे꣢꣯ । इ꣡न्द्रे꣢꣯ । स꣣न्तु । तुवि꣡वा꣢जाः । तु꣣वि꣢ । वा꣣जाः । क्षुम꣡न्तः꣢ । या꣡भिः꣢꣯ । म꣡दे꣢꣯म ॥१०८४॥
स्वर रहित मन्त्र
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर्मदेम ॥१०८४॥
स्वर रहित पद पाठ
रेवतीः । नः । सधमादे । सध । मादे । इन्द्रे । सन्तु । तुविवाजाः । तुवि । वाजाः । क्षुमन्तः । याभिः । मदेम ॥१०८४॥
सामवेद - मन्त्र संख्या : 1084
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 5; सूक्त » 1; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके १५३ क्रमाङ्के परमात्मनो नृपस्य च विषये व्याख्याता। अत्र योगविषयो व्याख्यायते।
पदार्थः -
(सधमादे) सह माद्यन्ति मनोबुद्धीन्द्रियादीनि यत्र स सधमादो योगयज्ञः तस्मिन् (नः) उपासकानाम् अस्माकम् (रेवतीः) रयिमत्यः ऐश्वर्यवत्यः मैत्रीकरुणामुदितोपेक्षावृत्तयः (तुविवाजाः) बहुबलाः सत्यः (इन्द्रे) जीवात्मनि (सन्तु) विद्यमाना भवन्तु, (याभिः) वृत्तिभिः (क्षुमन्तः) निवासवन्तो वयम् [क्षि निवासगत्योः, औणादिको डुः प्रत्ययः।] (मदेम) आनन्देम ॥१॥२
भावार्थः - सर्वप्राणिषु सुखसंभोगापन्नेषु मैत्रीं भावयेत्, दुःखितेषु करुणाम्, पुण्यात्मकेषु मुदिताम्, अपुण्यशीलेषूपेक्षाम्। एवमस्य भावयतः शुक्लो धर्म उपजायते। ततश्च चित्तं प्रसीदति, प्रसन्नमेकाग्रं स्थितिपदं लभते। एताश्चित्तवृत्तयो यदा मनुष्यस्यात्मनि समुद्भवन्ति तदा चित्तप्रसादनेन स निवासवानानन्दवांश्च जायते ॥१॥३
टिप्पणीः -
१. ऋ० १।३०।१३, अथ०, २०।१२२।१, साम० १५३। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं परमैश्वर्यप्राप्तिविषये व्याख्यातवान्। ३. मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्त- प्रसादनम्। योग० १।३३।