Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1087
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

सु꣣रूपकृत्नु꣢मू꣣त꣡ये꣢ सु꣣दु꣡घा꣢मिव गो꣣दु꣡हे꣢ । जु꣣हू꣢मसि꣣ द्य꣡वि꣢द्यवि ॥१०८७॥

स्वर सहित पद पाठ

सु꣣रूपकृत्नु꣢म् । सु꣣रूप । कृत्नु꣢म् । ऊ꣣त꣡ये꣢ । सु꣣दु꣡घा꣢म् । सु꣣ । दु꣡घा꣢꣯म् । इ꣣व । गोदु꣡हे꣢ । गो꣣ । दु꣡हे꣢꣯ । जु꣣हूम꣡सि꣢ । द्य꣡वि꣢꣯द्यवि । द्य꣡वि꣢꣯ । द्य꣣वि ॥१०८७॥


स्वर रहित मन्त्र

सुरूपकृत्नुमूतये सुदुघामिव गोदुहे । जुहूमसि द्यविद्यवि ॥१०८७॥


स्वर रहित पद पाठ

सुरूपकृत्नुम् । सुरूप । कृत्नुम् । ऊतये । सुदुघाम् । सु । दुघाम् । इव । गोदुहे । गो । दुहे । जुहूमसि । द्यविद्यवि । द्यवि । द्यवि ॥१०८७॥

सामवेद - मन्त्र संख्या : 1087
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
वयम् (ऊतये) योगमार्गे प्रवेशाय, रूपवतां पदार्थानां प्राप्तये वा। [अव धातोरर्थेषु प्रवेशावाप्ती अप्यर्थौ पठितौ।] (सुरूपकृत्नुम्) शोभनानां रूपाणां यमनियमासनप्राणायामप्रत्याहारधारणाध्यान-समाधीनाम् कारयितारम् इन्द्रं गुरुम्, शोभनानां रूपवतां पदार्थानां कर्तारम् इन्द्रं शिल्पकारं वा (द्यविद्यवि) दिनेदिने (जुहूमसि) आह्वयामः। कथमिव ? (गोदुहे) गोदुग्धमिच्छवे गवां दोग्ध्रे (सुदुघाम् इव) यथा सुष्ठुदोग्ध्रीं गाम् आह्वयन्ति तद्वत् ॥१॥२ अत्रोपमालङ्कारः ॥१॥

भावार्थः - यथा गोदुग्धप्राप्तये गौराहूयते तथा योगाभ्यासाय योगी गुरः शिल्पोन्नतये च शिल्पकार आह्वातव्यः ॥१॥

इस भाष्य को एडिट करें
Top