Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1089
ऋषिः - मधुच्छन्दा वैश्वामित्रः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

अ꣡था꣢ ते꣣ अ꣡न्त꣢मानां वि꣣द्या꣡म꣢ सुमती꣣ना꣢म् । मा꣢ नो꣣ अ꣡ति꣢ ख्य꣣ आ꣡ ग꣢हि ॥१०८९॥

स्वर सहित पद पाठ

अ꣡थ꣢꣯ । ते꣣ । अ꣡न्त꣢꣯मानाम् । वि꣣द्या꣡म꣢ । सु꣣मतीना꣢म् । सु꣣ । मतीना꣢म् । मा । नः꣣ । अ꣡ति꣢꣯ । ख्यः꣣ । आ꣢ । ग꣣हि ॥१०८९॥


स्वर रहित मन्त्र

अथा ते अन्तमानां विद्याम सुमतीनाम् । मा नो अति ख्य आ गहि ॥१०८९॥


स्वर रहित पद पाठ

अथ । ते । अन्तमानाम् । विद्याम । सुमतीनाम् । सु । मतीनाम् । मा । नः । अति । ख्यः । आ । गहि ॥१०८९॥

सामवेद - मन्त्र संख्या : 1089
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 5; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थः -
हे इन्द्र ! परमात्मन् राजन् आचार्य योगगुरो शिल्पकार वा ! (अथ) अपि च, वयम्, (ते) तव (अन्तमानाम्) अन्तिकतमानाम् (सुमतीनाम्) प्रशस्तानां मतीनाम् (विद्याम) जानीयाम। त्वम् (नः अति) अस्मान् अतिक्रम्य (मा ख्यः) स्वोपदेशं मा कार्षीः, प्रत्युत (आ गहि) अस्मान् आगच्छ, आगम्य च स्वदत्तीनां पात्रमस्मान् कुर्विति भावः ॥३॥२

भावार्थः - परमात्मनो नृपतेराचार्यस्य योगिनः शिल्पिनश्च यानि ज्ञानानि कर्माणि च सन्ति तत उपकारान् गृहीत्वा स्वात्मा समुन्नेयः ॥३॥

इस भाष्य को एडिट करें
Top