Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1104
ऋषिः - कुत्स आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
3
अ꣣या꣢ प꣣वा꣡ प꣢वस्वै꣣ना꣡ वसू꣢꣯नि माꣳश्च꣣त्व꣡ इ꣢न्दो꣣ स꣡र꣢सि꣣ प्र꣡ ध꣢न्व । ब्र꣣ध्न꣢श्चि꣣द्य꣢स्य꣣ वा꣢तो꣣ न꣢ जू꣣तिं꣡ पु꣢रु꣣मे꣡धा꣢श्चि꣣त्त꣡क꣢वे꣣ न꣡रं꣢ धात् ॥११०४॥
स्वर सहित पद पाठअ꣣या꣢ । प꣡वा꣢ । प꣣वस्व । एना꣢ । व꣡सू꣢꣯नि । मा꣣ꣳश्चत्वे꣢ । इ꣣न्दो । स꣡र꣢꣯सि । प्र । ध꣣न्व । ब्रध्नः꣢ । चि꣣त् । य꣡स्य꣢꣯ । वा꣡तः꣢꣯ । न । जू꣡ति꣢꣯म् । पु꣣रु꣡मे꣢धाः । पु꣣रु । मे꣡धाः꣢꣯ । चि꣣त् । त꣡क꣢꣯वे । न꣡र꣢꣯म् । धा꣣त् ॥११०४॥
स्वर रहित मन्त्र
अया पवा पवस्वैना वसूनि माꣳश्चत्व इन्दो सरसि प्र धन्व । ब्रध्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् ॥११०४॥
स्वर रहित पद पाठ
अया । पवा । पवस्व । एना । वसूनि । माꣳश्चत्वे । इन्दो । सरसि । प्र । धन्व । ब्रध्नः । चित् । यस्य । वातः । न । जूतिम् । पुरुमेधाः । पुरु । मेधाः । चित् । तकवे । नरम् । धात् ॥११०४॥
सामवेद - मन्त्र संख्या : 1104
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 21; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 5; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 21; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 5; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ५४१ क्रमाङ्के परमात्मपक्षे व्याख्याता। अत्र स एव विषयः प्रकारान्तरेण वर्ण्यते।
पदार्थः -
हे (इन्दो) तेजस्विन् आनन्दरसेन क्लेदक परमात्मन् ! त्वम् (अया) अनया (पवा) पवया, धारया। [पवते प्रवहति इति पवा तया, तृतीयैकवचने ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन विभक्तेराकारादेशः।] (एना) एनानि (वसूनि) दिव्यानि भौतिकानि च धनानि (पवस्व) प्रवाहय, (मांश्चत्वे) मान् अभिमन्यमानान् कामक्रोधादिशत्रून् चातयति नाशयतीति तस्मिन् (सरसि) गतिशीले जीवात्मनि। [सरति अग्रे गच्छतीति सरः।] (प्र धन्व) प्रकर्षेण गच्छ, (पुरुमेधाः चित्) बहुमेधावान् जनोऽपि (तकवे) प्रगतये। [तकतिः गतिकर्मा। निघं० २।१४।] (यस्य) यस्य तव (नरम्) नेतृत्वगुणम् (धात्) दधाति, (ब्रध्नः चित्) महान् (वातः) वायुः (न) यथा (जूतिम्) वेगम् (धात्) दधाति ॥१॥ अत्रोपमालङ्कारः ॥१॥
भावार्थः - वाय्वादयः सर्वेऽपि प्राकृतिकाः पदार्था निखिला अपि मनुष्याश्च परमात्मन एव सकाशात् स्वां स्वां शक्तिमाप्नुवन्ति, तस्य संरक्षणं विना तेऽकिञ्चित्करा एव ॥१॥
टिप्पणीः -
१. ऋ० ९।९७।५२ ‘ब्र॒ध्नश्चि॒दत्र॒ वातो॒ न जू॒तः पु॑रु॒ मेधश्चि॒त् तक॑वे॒ नरं दात्’ इत्युत्तरार्धपाठः। साम० ५४१।