Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1106
ऋषिः - कुत्स आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
5
म꣢ही꣣मे꣡ अ꣢स्य꣣ वृ꣢ष꣣ ना꣡म꣢ शू꣣षे꣡ माꣳश्च꣢꣯त्वे वा꣣ पृ꣡श꣢ने वा꣣ व꣡ध꣢त्रे । अ꣡स्वा꣢पयन्नि꣣गु꣡तः꣢ स्ने꣣ह꣢य꣣च्चा꣢पा꣣मि꣢त्रा꣣ꣳ अ꣢पा꣣चि꣡तो꣢ अचे꣣तः꣢ ॥११०६॥
स्वर सहित पद पाठम꣡ही꣢꣯ । इ꣣मे꣡इति꣢ । अ꣣स्य । वृ꣡ष꣢꣯ । ना꣡म꣢꣯ । शू꣣षे꣡इति꣢ । मा꣡ꣳश्च꣢꣯त्वे । वा꣣ । पृ꣡श꣢꣯ने । वा꣣ । व꣡ध꣢꣯त्रे꣣इ꣡ति꣢ । अ꣡स्वा꣢꣯पयत् । नि꣣गु꣡तः꣢ । नि꣣ । गु꣡तः꣢꣯ । स्ने꣣ह꣡य꣢त् । च꣣ । अ꣡प꣢꣯ । अ꣣मि꣡त्रा꣢न् । अ꣣ । मि꣡त्रा꣢꣯न् । अ꣡प꣢꣯ । अ꣣चि꣡तः꣢ । अ꣣ । चि꣡तः꣢꣯ । अ꣣च । इतः꣢ ॥११०६॥
स्वर रहित मन्त्र
महीमे अस्य वृष नाम शूषे माꣳश्चत्वे वा पृशने वा वधत्रे । अस्वापयन्निगुतः स्नेहयच्चापामित्राꣳ अपाचितो अचेतः ॥११०६॥
स्वर रहित पद पाठ
मही । इमेइति । अस्य । वृष । नाम । शूषेइति । माꣳश्चत्वे । वा । पृशने । वा । वधत्रेइति । अस्वापयत् । निगुतः । नि । गुतः । स्नेहयत् । च । अप । अमित्रान् । अ । मित्रान् । अप । अचितः । अ । चितः । अच । इतः ॥११०६॥
सामवेद - मन्त्र संख्या : 1106
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 21; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 5; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 21; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 5; मन्त्र » 3
Acknowledgment
विषयः - अथ नास्तिकानां शत्रूणां पराजयाय राष्ट्रे ब्रह्मप्रचाराय च नृपतिविषयमाह।
पदार्थः -
(अस्य) सोमस्य वीररसागारस्य नृपतेः (इमे) प्रत्यक्षं दृश्यमाने (वृष नाम) वृषनाम्नी वर्षकगुणे, (शूषे) बलवती (मही) महत्यौ बाहुयष्टी स्तः, ये (मांश्चत्वे वा) अश्वसंग्रामे वा (पृशने वा) परस्परस्पर्शयुक्ते मल्लयुद्धे वा (वधत्रे) शत्रूणां वधकरे भवतः। [मांश्चत्वः इत्यश्वनाम। निघं० १।१४, पृशनं स्पृशतेः, सकारलोपश्छान्दसः। हन्ति येन तद् वधत्रम्, ‘अभिनक्षियजिवधिपतिभ्योऽत्रन्’ उ० ३।१०५ इत्यनेन अत्रन् प्रत्ययः।] असौ सोमः वीरः नृपतिः (निगुतः) निगुप्तान् दुर्गखातादिषु प्रच्छन्नान् शत्रून् (अस्वापयत्) स्वापयति, धराशायिनः करोतीत्यर्थः। (स्नेहयत् च) मित्रेषु स्निह्यति च। अथ प्रत्यक्षकृतमाह—हे सोम शान्तिप्रिय प्रजाध्यक्ष ! त्वम् (इतः) अस्माद् राष्ट्रात् (अमित्रान्) द्रोहकारिणः रिपून् (अप अच) अपगमय, (अचितः) अविवेकिनः अधार्मिकान् नास्तिकान् (अप अच) अपगमय। एवं च राष्ट्रे परमेश्वरप्रचाराय वेदप्रचाराय च बद्धपरिकरो भव ॥३॥
भावार्थः - सर्वेऽपि वीरा राष्ट्रवासिनः शत्रूच्छेदकाः परमात्मपूजकाश्च तदैव भवन्ति यदा राष्ट्राध्यक्षस्तत्र रुचिं गृह्णाति ॥३॥ अस्मिन् खण्डे गुरुशिष्ययोरुपास्योपासक-योरास्तिकस्य नृपतेश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
टिप्पणीः -
१. ऋ० ९।९७।५४।