Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1110
ऋषिः - भुवन आप्त्यः साधनो वा भौवनः देवता - विश्वे देवाः छन्दः - द्विपदा त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
3

इ꣣मा꣢꣫ नु कं꣣ भु꣡व꣢ना सीषधे꣣मे꣡न्द्र꣢श्च꣣ वि꣡श्वे꣢ च दे꣣वाः꣢ ॥१११०

स्वर सहित पद पाठ

इ꣣मा꣢ । नु । क꣣म् । भु꣡व꣢꣯ना । सी꣣षधेम । इ꣡न्द्रः꣢꣯ । च꣣ । वि꣡श्वे꣢꣯ । च꣣ । देवाः꣢ ॥१११०॥१


स्वर रहित मन्त्र

इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ॥१११०


स्वर रहित पद पाठ

इमा । नु । कम् । भुवना । सीषधेम । इन्द्रः । च । विश्वे । च । देवाः ॥१११०॥१

सामवेद - मन्त्र संख्या : 1110
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 23; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
वयम्, (इन्द्रः च) अस्माकं जीवात्मा च (विश्वे च देवाः) मनोबुद्धिप्राणज्ञानेन्द्रियकर्मेन्द्रियरूपा अन्ये च देवाः मिलित्वा (नु कम्) सद्य एव (इमा भुवना) इमानि सर्वाणि भुवनानि सूर्यचन्द्रमङ्गलबुधबृहस्पतिभूम्यादीनि (सीषधेम) साधयेम, तद्विषयकज्ञानेन साधनानां प्रयोगेण च स्वानुकूलानि कुर्याम ॥१॥

भावार्थः - विद्वद्भिः सर्वा भूगोलखगोलविद्या विज्ञायान्येभ्यो लोकेभ्यो जायमाना लाभाः सर्वे प्राप्तव्या हानयश्च परिहरणीयाः ॥१॥

इस भाष्य को एडिट करें
Top