Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1113
ऋषिः - वामदेवः
देवता - इन्द्रः
छन्दः - द्विपदा विराट्
स्वरः - पञ्चमः
काण्ड नाम -
5
प्र꣡ व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते ॥१११३॥
स्वर सहित पद पाठप्र꣢ । वः꣣ । इ꣡न्द्रा꣢꣯य । वृ꣣त्रह꣡न्त꣢माय । वृ꣣त्र । ह꣡न्त꣢꣯माय । वि꣡प्रा꣢꣯य । वि । प्रा꣣य । गाथ꣢म् । गा꣣यत । य꣢म् । जु꣣जो꣡ष꣢ते ॥१११३॥
स्वर रहित मन्त्र
प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते ॥१११३॥
स्वर रहित पद पाठ
प्र । वः । इन्द्राय । वृत्रहन्तमाय । वृत्र । हन्तमाय । विप्राय । वि । प्राय । गाथम् । गायत । यम् । जुजोषते ॥१११३॥
सामवेद - मन्त्र संख्या : 1113
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 24; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 24; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमा ऋक् पूर्वार्चिके ४४६ क्रमाङ्के परमात्मस्तुतिविषये व्याख्याता। अत्र गुरुशिष्यविषयो राजप्रजाविषयश्च वर्ण्यते।
पदार्थः -
हे शिष्याः, हे प्रजाजनाश्च ! (वः) यूयम् (वृत्रहन्तमाय) अतिशयेन दोषाणां शत्रूणां वा विनाशकाय, (विप्राय) विदुषे (इन्द्राय) आचार्याय नृपतये वा (गाथम्) गुणवर्णनपरं स्तोत्रम् (प्र गायत) प्र कीर्तयत, (यम्) गाथं स्तोत्रम्, सः (जुजोषते) प्रीत्या सेवते ॥१॥
भावार्थः - शिष्यैर्गुरूणां प्रजाजनैश्च राज्ञो गुणान् कीर्तयित्वा तेभ्यो यथायोग्यं विद्याविनयराष्ट्रोत्थानादयो लाभाः प्राप्तव्याः ॥१॥
टिप्पणीः -
१. साम० ४४६।