Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1115
ऋषिः - वामदेवः देवता - इन्द्रः छन्दः - द्विपदा विराट् स्वरः - पञ्चमः काण्ड नाम -
6

उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र ॥१११५॥

स्वर सहित पद पाठ

उ꣡प꣢꣯ । प्र꣣क्षे꣢ । प्र꣣ । क्षे꣢ । म꣡धु꣢꣯मति । क्षि꣣य꣡न्तः꣢ । पु꣡ष्ये꣢꣯म । र꣣यि꣢म् । धी꣣म꣡हे꣢ । ते꣣ । इन्द्र ॥१११५॥


स्वर रहित मन्त्र

उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र ॥१११५॥


स्वर रहित पद पाठ

उप । प्रक्षे । प्र । क्षे । मधुमति । क्षियन्तः । पुष्येम । रयिम् । धीमहे । ते । इन्द्र ॥१११५॥

सामवेद - मन्त्र संख्या : 1115
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 24; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (इन्द्र) विद्वन् आचार्य परमैश्वर्यवन् वीर राजेन्द्र वा ! वयं (ते) त्वाम् (धीमहे) आचार्यपदे राजपदे वा प्रतिष्ठापयामः। तव (मधुमति) मधुरे (प्रक्षे) ज्ञाननिर्झरे ऐश्वर्यनिर्झरे वा (उप क्षियन्तः) निवसन्तः वयम् (रयिम्) विद्याधनम् सुवर्णवस्त्रालङ्कारादिधनं वा (पुष्येम) पुष्टतया प्राप्नुयाम ॥३॥

भावार्थः - आचार्यपदे नृपतिपदे वा सुयोग्यो विद्वान् पुरुषश्चेत् प्रतिष्ठाप्यते तर्हि स सर्वान् शिष्यान् प्रजाजनांश्च विदुषो धनाधीशांश्च कर्तुं पारयति ॥३॥ अस्मिन् खण्डेऽध्यात्माधिराष्ट्रयोर्गुरुशिष्यराजप्रजयोश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

इस भाष्य को एडिट करें
Top