Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1120
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
हि꣣न्वाना꣢सो꣣ र꣡था꣢ इव दधन्वि꣣रे꣡ गभ꣢꣯स्त्योः । भ꣡रा꣢सः का꣣रि꣡णा꣢मिव ॥११२०॥
स्वर सहित पद पाठहिन्वाना꣡सः꣢ । र꣡थाः꣢꣯ । इ꣣व । दधन्विरे꣢ । ग꣡भ꣢꣯स्त्योः । भ꣡रा꣢꣯सः । का꣣रि꣡णा꣢म् । इ꣣व ॥११२०॥
स्वर रहित मन्त्र
हिन्वानासो रथा इव दधन्विरे गभस्त्योः । भरासः कारिणामिव ॥११२०॥
स्वर रहित पद पाठ
हिन्वानासः । रथाः । इव । दधन्विरे । गभस्त्योः । भरासः । कारिणाम् । इव ॥११२०॥
सामवेद - मन्त्र संख्या : 1120
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 1; सूक्त » 1; मन्त्र » 5
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 1; सूक्त » 1; मन्त्र » 5
Acknowledgment
विषयः - अथ पुनरपि गुरूणामेव विषयमाह।
पदार्थः -
(हिन्वानासः) गच्छन्तः (रथाः इव) शकटाः यथा किञ्च (कारिणाम्) भारवाहिनां कर्मकराणाम् (भरासः इव) भाराः यथा (गभस्त्योः) बाह्वोः (दधन्विरे) धीयन्ते, तथैव (सोमासः) विद्वांसो गुरवः, (नृपतिना) गृहस्थैः प्रजाजनैश्च धनादिदानेन (दधन्विरे) धीयन्ते। [अत्र ‘सोमासः’ इति पदं पूर्वमन्त्रादाकृष्यते] ॥५॥ अत्रोपमालङ्कारः ॥५॥
भावार्थः - यथा मार्गं गच्छन्तो रथाः प्रग्रहनियन्त्रेण बाहुभ्यां धीयन्ते यथा वा शिरसा भारं वहन्तः श्रमिकास्तं भारं बाहुभ्यां दधति, तथैव विद्वांसो गुरुजनाः राजसाहाय्यदानेन धारणीयाः ॥५॥
टिप्पणीः -
१. ऋ० ९।१०।२।