Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1123
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
आ꣣पाना꣡सो꣢ वि꣣व꣡स्व꣢तो꣣ जि꣡न्व꣢न्त उ꣣ष꣢सो꣣ भ꣡ग꣢म् । सू꣢रा꣣ अ꣢ण्वं꣣ वि꣡ त꣢न्वते ॥११२३॥
स्वर सहित पद पाठआ꣣पाना꣡सः꣢ । वि꣣व꣡स्व꣢तः । वि꣣ । व꣡स्व꣢꣯तः । जि꣡न्व꣢꣯न्तः । उ꣣ष꣡सः꣢ । भ꣡ग꣢꣯म् । सू꣡राः꣢꣯ । अ꣡ण्व꣢꣯म् । वि । त꣣न्वते ॥११२३॥
स्वर रहित मन्त्र
आपानासो विवस्वतो जिन्वन्त उषसो भगम् । सूरा अण्वं वि तन्वते ॥११२३॥
स्वर रहित पद पाठ
आपानासः । विवस्वतः । वि । वस्वतः । जिन्वन्तः । उषसः । भगम् । सूराः । अण्वम् । वि । तन्वते ॥११२३॥
सामवेद - मन्त्र संख्या : 1123
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 8
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 1; सूक्त » 1; मन्त्र » 8
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 8
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 1; सूक्त » 1; मन्त्र » 8
Acknowledgment
विषयः - अथ पुनर्गुरुशिष्यविषयो वर्ण्यते।
पदार्थः -
(आपानासः) आपानाः, (ज्ञानरसस्य) कूपभूताः, (सूराः) सूर्यसमतेजस्काः सोमाः गुरवः (विवस्वतः) अन्धकारोच्छेदकस्य आदित्यस्य (उषसः) प्रभातकान्तेश्च (भगम्) श्रियम् (जिन्वन्तः) शिष्याणां हृदयेषु प्रेरयन्तः (अण्वम्२) सूक्ष्मपि विज्ञानम् (वि तन्वते) शिष्यबुद्धौ विस्तारयन्ति ॥८॥
भावार्थः - यथोषाः सूर्यश्च रात्रेरन्धकारं विच्छिद्य भूमौ प्रकाशं जनयतस्तथैव गुरुजनाः शिष्याणामज्ञानान्धकारमपनीय सूक्ष्मतममपि विज्ञानं हस्तामलकवदाविष्कुर्वन्ति विद्याज्योतिषा च तेषामात्मानं भासयन्ति ॥८॥
टिप्पणीः -
१. ऋ० ९।१०।५, ‘जिन्वन्त’ इत्यत्र ‘जग॑न्त’ इति पाठः। २. अण्वं वितन्वते सूक्ष्मं वितानं कुर्वन्ति—इति वि०। अभिषववेलायामुपरमेषु शब्दं कुर्वन्ति—इति सा०।