Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1127
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

अ꣣भि꣢ प्रि꣣यं꣢ दि꣣व꣢स्प꣣द꣡म꣢ध्व꣣र्यु꣢भि꣣र्गु꣡हा꣢ हि꣣त꣢म् । सू꣡रः꣢ पश्यति꣣ च꣡क्ष꣢सा ॥११२७॥

स्वर सहित पद पाठ

अभि꣢ । प्रि꣡य꣢म् । दि꣣वः꣢ । प꣣द꣢म् । अ꣣ध्वर्यु꣡भिः꣢ । गु꣡हा꣢꣯ । हि꣣त꣢म् । सू꣡रः꣢꣯ । प꣣श्यति । च꣡क्ष꣢꣯सा ॥११२७॥


स्वर रहित मन्त्र

अभि प्रियं दिवस्पदमध्वर्युभिर्गुहा हितम् । सूरः पश्यति चक्षसा ॥११२७॥


स्वर रहित पद पाठ

अभि । प्रियम् । दिवः । पदम् । अध्वर्युभिः । गुहा । हितम् । सूरः । पश्यति । चक्षसा ॥११२७॥

सामवेद - मन्त्र संख्या : 1127
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 12
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 1; सूक्त » 1; मन्त्र » 12
Acknowledgment

पदार्थः -
(प्रियम्) प्रीतिपात्रम्, (दिवः) द्युलोकस्य (पदम्) प्रतिष्ठापकम्, (गुहा हितम्) गुहायां निहितम्, गुह्यं सोमं परमात्मानम् (अध्वर्युभिः) योगयज्ञस्य अध्वर्युभूतैः योगप्रशिक्षकैः गुरुभिः शिक्षितः सन् (सूरः) प्राज्ञः उपासकः (चक्षसा) अन्तर्दृष्ट्या (अभिपश्यति) साक्षात्करोति ॥१२॥

भावार्थः - सुयोग्यैर्योगप्रशिक्षकैर्गुरुभिर्योगमभ्यस्योपासक-जनाश्चर्मचक्षुर्भ्याम् अदृश्यं सर्वान्तर्यामिनं परमात्मानमनुभवितुं समर्था जायन्ते ॥१२॥ अस्मिन् खण्डे गुरशिष्यविषयस्य गुरुप्रदर्शितमार्गेण परमात्मसाक्षात्कारस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥

इस भाष्य को एडिट करें
Top