Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1145
ऋषिः - यजत आत्रेयः
देवता - मित्रावरुणौ
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
ता꣡ नः꣢ शक्तं꣣ पा꣡र्थि꣢वस्य म꣣हो꣡ रा꣣यो꣢ दि꣣व्य꣡स्य꣢ । म꣡हि꣢ वां क्ष꣣त्रं꣢ दे꣣वे꣡षु꣢ ॥११४५॥
स्वर सहित पद पाठता । नः꣣ । शक्तम् । पा꣡र्थि꣢꣯वस्य । म꣣हः꣢ । रा꣣यः꣢ । दि꣣व्य꣡स्य꣢ । म꣡हि꣢꣯ । वा꣣म् । क्षत्र꣢म् । दे꣣वे꣡षु꣢ ॥११४५॥
स्वर रहित मन्त्र
ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य । महि वां क्षत्रं देवेषु ॥११४५॥
स्वर रहित पद पाठ
ता । नः । शक्तम् । पार्थिवस्य । महः । रायः । दिव्यस्य । महि । वाम् । क्षत्रम् । देवेषु ॥११४५॥
सामवेद - मन्त्र संख्या : 1145
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 2; मन्त्र » 3
Acknowledgment
विषयः - अथ पुनरपि स एव विषयो वर्ण्यते।
पदार्थः -
(ता) तौ युवाम् मित्रावरुणौ परमात्मजीवात्मानौ (पार्थिवस्य) सांसारिकस्य (दिव्यस्य) आध्यात्मिकस्य च (महः) महतः (रायः) धनस्य (नः) अस्मभ्यम् (शक्तम्) दातुं शक्नुतम्। (देवेषु) सूर्यचन्द्रविद्युदादिषु मनोबुद्धिप्राणादिषु वा (वाम्) युवयोः (महि) महत् (क्षत्रम्) बलं निहितमस्ति ॥३॥२
भावार्थः - परमात्मजीवात्मनोः साहाय्येन न केवलं लौकिकं किन्तु पारमार्थिकं दिव्यं धनमपि प्राप्तुं शक्यते। शरीरस्थानि मनोबुद्ध्यादीन्यात्मनः परमात्मनश्चोभयोर्बलेन, सूर्यग्रहनक्षत्रादीनि च परमात्मन एव बलेन बलवन्ति सन्ति। अतोऽस्माभिरपि तयोर्बलं कुतो न प्राप्तव्यम् ॥३॥
टिप्पणीः -
१. ऋ० ५।६८।३, साम० १४६५। २. दयानन्दर्षिर्ऋग्भाष्ये मन्त्रमिमं राज्यं कथमुन्नेयमिति विषये व्याचष्टे।