Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1153
ऋषिः - सिकता निवावरी देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
7

प्र꣢ वो꣣ धि꣡यो꣢ मन्द्र꣣यु꣡वो꣢ विप꣣न्यु꣡वः꣢ पन꣣स्यु꣡वः꣢ सं꣣व꣡र꣢णेष्वक्रमुः । ह꣢रिं꣣ क्री꣡ड꣢न्तम꣣꣬भ्य꣢꣯नूषत꣣ स्तु꣢भो꣣ऽभि꣢ धे꣣न꣢वः꣣ प꣢य꣣से꣡द꣢शिश्रयुः ॥११५३॥

स्वर सहित पद पाठ

प्र । वः꣣ । धि꣡यः꣢꣯ । म꣣न्द्रयु꣡वः꣢ । वि꣣पन्यु꣡वः꣢ । प꣣नस्यु꣡वः꣢ । सं꣢व꣡र꣢णेषु । स꣣म् । व꣡र꣢꣯णेषु । अ꣣क्रमुः । ह꣡रि꣢꣯म् । क्री꣡ड꣢꣯न्तम् । अ꣣भि꣢ । अ꣣नूषत । स्तु꣡भः꣢꣯ । अ꣣भि꣢ । धे꣣न꣡वः꣢ । प꣡य꣢꣯सा । इत् । अ꣣शिश्रयुः ॥११५३॥


स्वर रहित मन्त्र

प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवरणेष्वक्रमुः । हरिं क्रीडन्तमभ्यनूषत स्तुभोऽभि धेनवः पयसेदशिश्रयुः ॥११५३॥


स्वर रहित पद पाठ

प्र । वः । धियः । मन्द्रयुवः । विपन्युवः । पनस्युवः । संवरणेषु । सम् । वरणेषु । अक्रमुः । हरिम् । क्रीडन्तम् । अभि । अनूषत । स्तुभः । अभि । धेनवः । पयसा । इत् । अशिश्रयुः ॥११५३॥

सामवेद - मन्त्र संख्या : 1153
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 7; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
हे मनुष्याः ! (वः) युष्माकम् (मन्द्रयुवः) मन्द्रम् आनन्दप्रदं परमेश्वरं कामयमानाः, (पनस्युवः) उत्कृष्टव्यवहारेच्छुकाः।[पनः उत्कृष्टं व्यवहारं परेषां कामयन्ते यास्ताः। पण व्यवहारे स्तुतौ च।] (विपन्युवः) विशेषेण स्तवनशीलाः (धियः) प्रज्ञाः (संवरणेषु) उपासनायज्ञेषु। [संव्रियते परमेश्वरोऽत्र इति संवरणास्तेषु।] (प्र अक्रमुः) उपासनामारभेरन् [प्रपूर्वात् क्रमतेर्विध्यर्थे लङ्।] (क्रीडन्तम्) जगत्क्रीडाः कुर्वन्तम् (हरिम्) हृदयहारिणं परमात्मानम् (स्तुभः) अर्चयितारः [स्तोभतिः अर्चतिकर्मा। निघं० ३।१४।] (अभ्यनूषत) अभ्यर्चन्तु। परमात्मना दत्ताः (धेनवः) गावः (पयसा इत्) दुग्धेन खलु (अशिश्रयुः) सर्वान् सेवन्ताम्। [श्रिञ् सेवायाम्, भ्वादिः, लङि व्यत्ययेन शपः श्लुः।] (यद्वा) परमात्मना प्रदत्ताः (धेनवः) वेदवाचः। [धेनुः इति वाङ्नाम। निघं० १।११।] (पयसा इत्) प्रतिपादनीयार्थलक्षणेन (दुग्धेन) खलु (अशिश्रयुः) सर्वान् सेवन्ताम् ॥२॥

भावार्थः - खगोले बहवः सूर्यनक्षत्रग्रहोपग्रहादयो लोका यदितस्ततो भ्रमन्ति तन्मन्यामहे जगदीश्वरः कन्दुकैः क्रीडतीति। स एव क्रीडाकरः स्वक्रीडया सर्वं जडचेतनात्मकं जगत् सञ्चालयतीति स कुतो नास्माभिरर्चनीयो वन्दनीयश्च ॥२॥

इस भाष्य को एडिट करें
Top