Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1163
ऋषिः - भृगुर्वारुणिर्जमदग्निर्भार्गवो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
ये꣡ सोमा꣢꣯सः परा꣣व꣢ति꣣ ये꣡ अ꣢र्वा꣣व꣡ति꣢ सुन्वि꣣रे꣢ । ये꣢ वा꣣दः꣡ श꣢र्य꣣णा꣡व꣢ति ॥११६३॥
स्वर सहित पद पाठये꣢ । सो꣡मा꣢꣯सः । प꣣राव꣡ति꣢ । ये । अ꣣र्वाव꣡ति꣢ । सु꣣न्विरे꣢ । ये । वा꣣ । अदः꣢ । श꣣र्यणा꣡व꣢ति ॥११६३॥
स्वर रहित मन्त्र
ये सोमासः परावति ये अर्वावति सुन्विरे । ये वादः शर्यणावति ॥११६३॥
स्वर रहित पद पाठ
ये । सोमासः । परावति । ये । अर्वावति । सुन्विरे । ये । वा । अदः । शर्यणावति ॥११६३॥
सामवेद - मन्त्र संख्या : 1163
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 5; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 11; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 5; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - अथैकवाक्यतया सम्पूर्णे सूक्ते विद्वद्भिः प्राप्यमाणे ब्रह्मानन्दरसो वर्ण्यते।
पदार्थः -
(ये सोमासः) ये ज्ञानप्रेरका विद्वांसः (परावति) पराविद्याविषये, (ये) ये च (अर्वावति) अपराविद्याविषये (ये वा) ये च (अदः) अस्मिन्। [अत्र सुपां सुलुक्० अ० ७।१।३९ इति सप्तम्या लुक्।] (शर्यणावति४) शरीरविद्याविषये (सुन्विरे) ज्ञानं सुन्वन्ति प्रयच्छन्ति, (ये) ये विद्वांसः (आर्जीकेषु) ऋजुप्रवृत्तिषु (कृत्वसु) कर्मयोगिषु, (ये) ये विद्वांसः (पस्त्यानाम्) प्रजानाम्। [विशो वै पस्त्याः। श० ५।३।५।१९।] (मध्ये) अभ्यन्तरे, (ये वा) ये च (पञ्चसु जनेषु५) यजमानपञ्चमेषु चतुर्षु ब्रह्माध्वर्युहोत्रुद्गातृषु (सुन्विरे) ज्ञानं सुन्वन्ति प्रयच्छन्ति (ते स्वानाः) सुवानाः अध्यापयमानाः, (इन्दवः) ज्ञानरसेन क्लेदकाः (देवासः) विद्वांसः (नः) अस्मभ्यम् (दिवः परि) द्योतमानात् परमात्मनः (वृष्टिम्) आनन्द-रसवर्षाम्, (सुवीर्यम्) सुवीर्योपेतम् अध्यात्मधनं च (आ पवन्ताम्) प्रवाहयन्तु ॥१-३॥
भावार्थः - आप्ता विद्वांसो विभिन्नात् जनान् तत्तत्सम्बद्धासु विद्यासु निष्णातान् कृत्वा ब्रह्मानन्दं च प्रदाय सुयोग्यान् कुर्वन्त्यतस्ते सर्वैः सत्करणीयाः ॥१-३॥ अस्मिन् खण्डे परमात्मनो विदुषां गुरूणां सकाशात् प्राप्यमाणस्य ज्ञानरसस्य ब्रह्मानन्दरसस्य च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेद्या ॥
टिप्पणीः -
१. ऋ० ९।६५।२२। २. ऋ० ९।६५।२३। ३. ऋ० ९।६५।२४, ‘सु॒वा॒ना’ इति भेदः। ४. शर्यणावति कुरुक्षेत्रस्य जघनार्द्धे शर्यणावत्संज्ञकं मधुरसयुक्तं सोमवत् सरोऽस्ति। अदः अस्मिन् सरसि सुरसा ये सोमा इन्द्रायाभिषूयन्ते—इति सा०। शर्यणावति भूमौ—इति वि०। ५. पञ्चजनाः यजमानश्चत्वार ऋत्विजः—इति वि०।