Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1177
ऋषिः - प्रतर्दनो दैवोदासिः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
4

च꣣मूष꣢च्छ्ये꣣नः꣡ श꣢कु꣣नो꣢ वि꣣भृ꣡त्वा꣢ गोवि꣣न्दु꣢र्द्र꣣प्स꣡ आयु꣢꣯धानि बि꣡भ्र꣢त् । अ꣣पा꣢मू꣣र्मि꣡ꣳ सच꣢꣯मानः समु꣣द्रं꣢ तु꣣री꣢यं꣣ धा꣡म꣢ महि꣣षो꣡ वि꣢वक्ति ॥११७७॥

स्वर सहित पद पाठ

च꣣मूष꣢त् । च꣣मू । स꣢त् । श्ये꣣नः꣢ । श꣣कुनः꣢ । वि꣣भृ꣡त्वा꣢ । वि꣣ । भृ꣡त्वा꣢꣯ । गो꣣विन्दुः꣢ । गो । विन्दुः꣢ । द्र꣣प्सः꣢ । आ꣡यु꣢꣯धानि । बि꣡भ्र꣢꣯त् । अ꣣पा꣢म् । ऊ꣣र्मि꣢म् । स꣡च꣢꣯मानः । स꣣मु꣢द्रम् । स꣣म् । उद्र꣢म् । तु꣣री꣡य꣢म् । धा꣡म꣢꣯ । म꣣हिषः꣢ । वि꣣वक्ति ॥११७७॥


स्वर रहित मन्त्र

चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् । अपामूर्मिꣳ सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥११७७॥


स्वर रहित पद पाठ

चमूषत् । चमू । सत् । श्येनः । शकुनः । विभृत्वा । वि । भृत्वा । गोविन्दुः । गो । विन्दुः । द्रप्सः । आयुधानि । बिभ्रत् । अपाम् । ऊर्मिम् । सचमानः । समुद्रम् । सम् । उद्रम् । तुरीयम् । धाम । महिषः । विवक्ति ॥११७७॥

सामवेद - मन्त्र संख्या : 1177
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
(चमूषत्) चम्वोः द्यावापृथिव्योः सीदति उपविष्टोऽस्ति यः सः, (श्येनः) शंसनीयकर्मा। [श्येनः शंसनीयं गच्छति। निरु० ४।२३।] (शकुनः) शक्तिशाली। [शक्नोतीति शकुनः। शक्लृ शक्तौ धातोः ‘शकेरुनोन्तोन्त्युनयः’ उ० ३।४९ इत्यनेन उन प्रत्ययः।] (विभृत्वा) विशेषेण भरणपोषणकर्ता। [अन्येभ्योऽपि दृश्यन्ते। अ० ३।२।७५। इत्यनेन डुभृञ् धारणपोषणयोः इत्यस्मात् क्वनिप् प्रत्ययः।] (गोविन्दुः२) गवां धेनूनां भूमीनां च लम्भकः। [विन्दुः इत्यत्र ‘विद्लृ लाभे’ धातोर्बाहुलकादौणादिक उः प्रत्ययः।] (द्रप्सः) आनन्दरसयुक्तः। [रसो वै सः। तै० उ० २।७ इत्युक्तेः। द्रप्सः इति जलबिन्दुवाचकः, यथा निरु० ५।१४ इत्यत्र।] (आयुधानि बिभ्रत्) शस्त्रास्त्राणि धारयन् सेनापतिरिव दण्डशक्तियुक्तः, (अपाम् ऊर्मिम्) उदकानाम् आच्छादकम्। [ऊर्मिः ऊर्णोतेः। निरु० ५।२३।] (समुद्रम्) अर्णवम् अन्तरिक्षं वा (सचमानः) श्रयमाणः। [षच सेचने सेवने च, भ्वादिः।] (महिषः) महान् स सोमः जगत्पतिः परमेश्वरः (तुरीयं धाम) पुरुषार्थचतुष्टयेषु चतुर्थं मोक्षमित्यर्थः (विवक्ति) उपदिशति। [वच परिभाषणे, अदादेर्लटि ‘जुहोत्यादिभ्यः श्लुः। बहुलं छन्दसि’ अ० २।४।७६ इत्यनेन शपः श्लुः। कुत्वं छान्दसम्] ॥ ननु पूर्वस्मिन् मन्त्रे मोक्षः ‘तृतीयं धाम’ इत्युक्तम्, अत्र च ‘तुरीयं धाम’ इति, तत् कथं संगच्छते, इति चेद् ब्रूमहे—प्रकृतिलोकः, जीवात्मलोकः, मोक्षलोकः इति तृतीयं धाम। धर्मः, अर्थः, कामः, मोक्षः इति चतुर्थं धाम ॥३॥

भावार्थः - सर्वान्तर्यामिणं सर्वशक्तिमन्तं सज्जनानामुन्नायकं दुष्टानां दण्डकं जगदीश्वरमनुभूय सर्वदुःखेभ्यो मुक्तिः प्राप्तव्या ॥३॥

इस भाष्य को एडिट करें
Top