Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1185
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
नृ꣣च꣡क्ष꣢सं त्वा व꣣य꣡मिन्द्र꣢꣯पीतꣳ स्व꣣र्वि꣡द꣢म् । भ꣣क्षीम꣡हि꣢ प्र꣣जा꣡मिष꣢꣯म् ॥११८५॥
स्वर सहित पद पाठनृच꣡क्ष꣢꣯सम् । नृ꣣ । च꣡क्ष꣢꣯सम् । त्वा꣣ । वय꣢म् । इ꣡न्द्र꣢꣯पीतम् । इ꣡न्द्र꣢꣯ । पी꣣तम् । स्वर्वि꣡द꣢म् । स्वः꣣ । वि꣡द꣢꣯म् । भ꣣क्षीम꣡हि꣢ । प्र꣣जा꣢म् । प्र꣣ । जा꣢म् । इ꣡ष꣢꣯म् ॥११८५॥
स्वर रहित मन्त्र
नृचक्षसं त्वा वयमिन्द्रपीतꣳ स्वर्विदम् । भक्षीमहि प्रजामिषम् ॥११८५॥
स्वर रहित पद पाठ
नृचक्षसम् । नृ । चक्षसम् । त्वा । वयम् । इन्द्रपीतम् । इन्द्र । पीतम् । स्वर्विदम् । स्वः । विदम् । भक्षीमहि । प्रजाम् । प्र । जाम् । इषम् ॥११८५॥
सामवेद - मन्त्र संख्या : 1185
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 8
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 2; मन्त्र » 8
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 8
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 1; सूक्त » 2; मन्त्र » 8
Acknowledgment
विषयः - अथ परमात्मानं प्रार्थयते।
पदार्थः -
हे सोम जगत्स्रष्टः रसागार परमात्मन् ! (नृचक्षसम्) नृणां द्रष्टारम्, (इन्द्रपीतम्) इन्द्रैः त्वदुपासकैः जीवात्मभिः आस्वादितम्, (स्वर्विदम्) दिव्यप्रकाशस्य मोक्षसुखस्य वा लम्भकम् (त्वा) त्वाम् (वयम्) तवोपासकाः आह्वयामः इति शेषः। वयं त्वत् (प्रजाम्) सद्गुणसन्ततिम् (इषम्)आनन्दरसधारां च। [इषा अद्भिः इति निरुक्तम् (१०।२६)।] (भक्षीमहि) प्राप्नुयाम। [भज सेवायाम्, भ्वादिः, लिङि छान्दसः शपो लुक्] ॥८॥
भावार्थः - परमेश्वरं ध्यायं ध्यायमुपासको दिव्यानन्दरसं मोक्षं च प्राप्तुं क्षमते ॥८॥
टिप्पणीः -
१. ऋ० ९।८।९।