Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1194
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
4
जु꣢ष्ट꣣ इ꣡न्द्रा꣢य मत्स꣣रः꣡ पव꣢꣯मानः꣣ क꣡नि꣢क्रदत् । वि꣢श्वा꣣ अ꣢प꣣ द्वि꣡षो꣢ जहि ॥११९४॥
स्वर सहित पद पाठजु꣡ष्टः꣢꣯ । इ꣡न्द्रा꣢꣯य । म꣣त्सरः꣡ । प꣡व꣢꣯मानः । क꣡निक्रदत् । वि꣡श्वाः꣢꣯ । अ꣡प꣢꣯ । द्वि꣡षः꣢꣯ । ज꣣हि ॥११९४॥
स्वर रहित मन्त्र
जुष्ट इन्द्राय मत्सरः पवमानः कनिक्रदत् । विश्वा अप द्विषो जहि ॥११९४॥
स्वर रहित पद पाठ
जुष्टः । इन्द्राय । मत्सरः । पवमानः । कनिक्रदत् । विश्वाः । अप । द्विषः । जहि ॥११९४॥
सामवेद - मन्त्र संख्या : 1194
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 8
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 8
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 8
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 8
Acknowledgment
विषयः - अथ परमेश्वरं प्रार्थयते।
पदार्थः -
हे सोम प्रेरक परमात्मन् ! (इन्द्राय) जीवात्मने (जुष्टः) प्रियः। [जुषी प्रीतिसेवनयोः, तुदादिः।] (मत्सरः) आनन्दजनकः। [मत्सरः सोमो, मन्दतेस्तृप्तिकर्मणः इति निरुक्तम् (२।५)।] (पवमानः) पवित्रतां प्रयच्छन्, (कनिक्रदत्) उपदिशन्। [‘दाधर्तिदर्धर्ति०’। अ० ७।४।६५ इत्यनेन क्रन्देर्यङ्लुगन्तस्य शतरि अभ्यासस्य चुत्वाभावो निगागमश्च निपात्यते।] त्वम् (विश्वाः द्विषः) सर्वाः द्वेषवृत्तीः, द्वेष्ट्रीः कामक्रोधादीनां सेनाः वा (अप जहि) विनाशय ॥८॥
भावार्थः - परमात्मोपासनेनान्तरात्मनि पवित्रताऽऽह्लादश्च जायते, द्वेषवृत्तयश्च नश्यन्ति ॥८॥
टिप्पणीः -
१. ऋ० ९।१३।८, ‘पव॑मान॒’ इति भेदः।