Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1206
ऋषिः - उचथ्य आङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
8

प्र꣣सवे꣢ त꣣ उ꣡दी꣢रते ति꣣स्रो꣡ वाचो꣢꣯ मख꣣स्यु꣡वः꣢ । य꣢꣫दव्य꣣ ए꣢षि꣣ सा꣡न꣢वि ॥१२०६॥

स्वर सहित पद पाठ

प्र꣣सवे । प्र꣣ । सवे꣢ । ते꣣ । उ꣣त् । ई꣢रते । तिस्रः꣢ । वा꣡चः꣢꣯ । म꣣खस्यु꣡वः꣢ । यत् । अ꣡व्ये꣢꣯ । ए꣡षि꣢꣯ । सा꣡न꣢꣯वि ॥१२०६॥


स्वर रहित मन्त्र

प्रसवे त उदीरते तिस्रो वाचो मखस्युवः । यदव्य एषि सानवि ॥१२०६॥


स्वर रहित पद पाठ

प्रसवे । प्र । सवे । ते । उत् । ईरते । तिस्रः । वाचः । मखस्युवः । यत् । अव्ये । एषि । सानवि ॥१२०६॥

सामवेद - मन्त्र संख्या : 1206
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 4; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थः -
हे सोम रसागार परमात्मन् ! (ते प्रसवे) ध्यानद्वारा तव आविर्भावे सति (मखस्युवः) उपासनायज्ञपूर्तिकामाः उपासकाः। [मखशब्दात् क्यचि उ प्रत्ययः। क्यचि सुग् वक्तव्यः। अ० ७।१।५१ इति वार्तिकेन सुगागमः।] (तिस्रः वाचः) ऋग्यजुःसामलक्षणाः तिस्रो गिरः (उदीरते) उच्चारयन्ति, (यत्) यदा, त्वम् (अव्ये सानवि) जीवात्मनः उन्नते धाम्नि (एषि) प्राप्नोषि। [अविः रक्षकः आत्मा, तस्येदम् अव्यम् तस्मिन्। सानवि सानौ। अत्र बाहुलकाद् ‘अच्च घेः’ अ० ७।३।११९ इति न प्रवर्तते, ततो गुणेऽवादेशे च ‘सानवि’ इति रूपनिष्पत्तिः] ॥२॥

भावार्थः - सर्वेषामन्तरात्मनि पूर्वमेव विद्यमानः परमात्मा ध्यानेन वेदमन्त्राणां गानेन च प्रकटीकरणीयः ॥२॥

इस भाष्य को एडिट करें
Top