Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1217
ऋषिः - निध्रुविः काश्यपः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
6
अ꣡यु꣢क्त꣣ सू꣢र꣣ ए꣡त꣢शं꣣ प꣡व꣢मानो म꣣ना꣡वधि꣢꣯ । अ꣣न्त꣡रि꣢क्षेण꣣ या꣡त꣢वे ॥१२१७॥
स्वर सहित पद पाठअ꣡यु꣢꣯क्त । सू꣡रः꣢꣯ । ए꣡त꣢꣯शम् । प꣡व꣢꣯मानः । म꣣नौ꣢ । अ꣡धि꣢꣯ । अ꣣न्त꣡रि꣢क्षेण । या꣡त꣢꣯वे ॥१२१७॥
स्वर रहित मन्त्र
अयुक्त सूर एतशं पवमानो मनावधि । अन्तरिक्षेण यातवे ॥१२१७॥
स्वर रहित पद पाठ
अयुक्त । सूरः । एतशम् । पवमानः । मनौ । अधि । अन्तरिक्षेण । यातवे ॥१२१७॥
सामवेद - मन्त्र संख्या : 1217
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 5; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 8; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 5; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ परमात्मनः कर्तृत्वं वर्णयति।
पदार्थः -
(सूरः) प्रेरकः। [षू प्रेरणे धातोः ‘सुसूधाञ्गृधिभ्यः क्रन्।’ उ० २।२५ इत्यनेन क्रन् प्रत्ययः।] (पवमानः) क्रियाशीलः सोमः परमेश्वरः (अन्तरिक्षेण) आकाशमार्गेण (यातवे) यातुम् (मनौ अधि) मनुष्ये (एतशम्) प्राणरूपम् अश्वम्। [एतशः इत्यश्वनाम। निघं० १।१४।] (अयुक्त) नियुक्तवानस्ति ॥२॥
भावार्थः - परमात्मना सहयोगं प्राणसिद्धिं च प्राप्य मनुष्या आकाशमार्गेण गमनागमने कर्तुं क्षमन्ते ॥२॥२
टिप्पणीः -
१. ऋ० ९।६३।८। २. द्रष्टव्यम्, द० भा०, य० १७।६७; भावार्थः—यदा मनुष्यः स्वात्मना सह परमात्मानं युङ्क्ते तदाऽणिमादयः सिद्धयः प्रादुर्भवन्ति, ततोऽव्याहतगत्याभीष्टानि स्थानानि गन्तुं शक्नोति नान्यथा।