Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1229
ऋषिः - कविर्भार्गवः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
4

शू꣢रो꣣ न꣡ ध꣢त्त꣣ आ꣡यु꣢धा꣣ गभस्त्योः꣣ स्वाः꣢३ सि꣡षा꣢सन्रथि꣣रो꣡ गवि꣢꣯ष्टिषु । इ꣡न्द्र꣢स्य꣣ शु꣡ष्म꣢मी꣣र꣡य꣢न्नप꣣स्यु꣢भि꣣रि꣡न्दु꣢र्हिन्वा꣣नो꣡ अ꣢ज्यते मनी꣣षि꣡भिः꣢ ॥१२२९॥

स्वर सहित पद पाठ

शू꣡रः꣢꣯ । न । ध꣣त्ते । आ꣡यु꣢꣯धा । ग꣡भ꣢꣯स्त्योः । स्वाऽ३रि꣡ति꣢ । सि꣡षा꣢꣯सन् । र꣣थिरः꣢ । ग꣡वि꣢꣯ष्टिषु । गोइ꣣ष्टिषु । इ꣡न्द्र꣢꣯स्य । शु꣡ष्म꣢꣯म् । ई꣣र꣡य꣢न् । अ꣣पस्यु꣡भिः꣢ । इ꣡न्दुः꣢꣯ । हि꣣न्वानः꣢ । अ꣣ज्यते । मनीषि꣡भिः꣢ ॥१२२९॥


स्वर रहित मन्त्र

शूरो न धत्त आयुधा गभस्त्योः स्वाः३ सिषासन्रथिरो गविष्टिषु । इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः ॥१२२९॥


स्वर रहित पद पाठ

शूरः । न । धत्ते । आयुधा । गभस्त्योः । स्वाऽ३रिति । सिषासन् । रथिरः । गविष्टिषु । गोइष्टिषु । इन्द्रस्य । शुष्मम् । ईरयन् । अपस्युभिः । इन्दुः । हिन्वानः । अज्यते । मनीषिभिः ॥१२२९॥

सामवेद - मन्त्र संख्या : 1229
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 7; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थः -
स सोमः परमेश्वरः (गभस्त्योः) द्यावापृथिवीरूपयोः हस्तयोः (आयुधा२) आयुधानि उदकानि। [आयुधानि इत्युदकनामसु पठितम्। निघं० १।१२] (धत्ते) धारयति। कथमिव ? (शूरः न) वीरो यथा (गभस्त्योः) हस्तयोः (आयुधा) आयुधानि शस्त्रास्त्राणि (धत्ते) धारयति। [गभस्ती इति बाहुनामसु पठितम् निघं० २।४।] (रथिरः) रथारूढः सेनापतिरिव (गविष्टिषु) देवासुरसंग्रामेषु। [शत्रुभिरपहृतानां गवाम् इष्टिः प्राप्तिर्यासु ता गविष्टयः सङ्ग्रामाः।] (स्वः) विजयसुखम् (सिषासन्) दित्सन्, (इन्द्रस्य) जीवात्मनः (शुष्मम्) बलम् (ईरयन्) उन्नयन्, (हिन्वानः) वृद्धिं प्रयच्छन्। [हि गतौ वृद्धौ च, आत्मनेपदं छान्दसम्।] (इन्दुः) तेजस्वी परमेश्वरः (अपस्युभिः) कर्मप्रियैः। [अपांसि कर्माणि आत्मनः कामयन्ते इति अपस्युवः तैः। अपः इति कर्मनाम। निघं० २।१।] (मनीषिभिः) मेधाविभिः स्तोतृजनैः (अज्यते) अन्तरात्मनि प्रकटीक्रियते। [अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु, कर्मणि रूपम्] ॥२॥ अत्र श्लिष्टोपमालङ्कारः, ‘रथिरः’ इत्यत्र च लुप्तोपमा ॥२॥

भावार्थः - प्रकाशप्रदाता वृष्टिप्रदाता विजयप्रदाता बलप्रदाता वृद्धिप्रदाता च परमेश्वरः कस्य न वन्दनीयः ? ॥२॥

इस भाष्य को एडिट करें
Top