Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1232
ऋषिः - देवातिथिः काण्वः
देवता - इन्द्रः
छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
4
य꣢द्वा꣣ रु꣢मे꣣ रु꣡श꣢मे꣣ श्या꣡व꣢के꣣ कृ꣢प꣣ इ꣡न्द्र꣢ मा꣣द꣡य꣢से꣣ स꣡चा꣢ । क꣡ण्वा꣢सस्त्वा꣣ स्तो꣡मे꣢भि꣣र्ब्र꣡ह्म꣢वाहस꣣ इ꣡न्द्रा य꣢꣯च्छ꣣न्त्या꣡ ग꣢हि ॥१२३२॥
स्वर सहित पद पाठयत् । वा꣣ । रु꣡मे꣢꣯ । रु꣡श꣢꣯मे । श्या꣡व꣢꣯के । कृ꣡पे꣢꣯ । इ꣡न्द्र꣢꣯ । मा꣣द꣡य꣢से । स꣡चा꣢꣯ । क꣡ण्वा꣢꣯सः । त्वा꣣ । स्तो꣡मे꣢꣯भिः । ब्र꣡ह्म꣢꣯वाहसः । ब्र꣡ह्म꣢꣯ । वा꣣हसः । इ꣡न्द्र꣢꣯ । आ । य꣣च्छन्ति । आ꣢ । ग꣢हि ॥१२३२॥
स्वर रहित मन्त्र
यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा । कण्वासस्त्वा स्तोमेभिर्ब्रह्मवाहस इन्द्रा यच्छन्त्या गहि ॥१२३२॥
स्वर रहित पद पाठ
यत् । वा । रुमे । रुशमे । श्यावके । कृपे । इन्द्र । मादयसे । सचा । कण्वासः । त्वा । स्तोमेभिः । ब्रह्मवाहसः । ब्रह्म । वाहसः । इन्द्र । आ । यच्छन्ति । आ । गहि ॥१२३२॥
सामवेद - मन्त्र संख्या : 1232
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 7; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 7; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषयः - अथ पुनः परमात्मनृपत्योर्विषयमाह।
पदार्थः -
(यद् वा) अपि च, हे (इन्द्र) परमैश्वर्य परमात्मन् वीर राजन् वा ! त्वम् (रुमे) स्तोतरि उपदेशके वा, (रुशमे) हिंसकानां हिंसके, (श्यावके) कर्मयोगिने, (कृपे) दीनदयालौ समर्थे च जने (सचा) सहैव (मादयसे) तृप्तिं प्रयच्छसि। [मद तृप्तियोगे, चुरादिः।] हे (इन्द्र) परमात्मन् राजन् वा ! (ब्रह्मवाहसः) स्तुतिवाहकाः ज्ञानवाहकाः वा (कण्वासः) मेधाविनो जनाः (स्तोमेभिः) स्तोत्रैः उद्बोधनगीतैर्वा (त्वा) त्वाम् (आ यच्छन्ति) वशे कुर्वन्ति, त्वम् (आ गहि) अस्मत्सकाशम् आगच्छ ॥२॥ (रुमे) यो रौति शब्दायते स्तौति स रुमः। रु शब्दे, अदादिः। (रुशमे२) रुशन्तीति रुशाः हिंसकाः, यो रुशान् हिंसकान् मिनोति हिनस्ति स रुशमः। रुश हिंसायाम्, तुदादिः। मिनोतिर्हन्तिकर्मा। निघं० २।१९। (श्यावके) यः श्यायते कर्मण्यो भवति स श्यावः। (श्यैङ्) गतौ, भ्वादिः। तस्मादौणादिको वन् प्रत्ययः। श्यावः एव श्यावकः। (कृपे) यः कल्पते समर्थो भवति स कृपः। कृपू सामर्थ्ये, भ्वादिः ॥२॥
भावार्थः - परमेश्वरो नृपतिश्च तेषामेव सहायकौ जायेते ये योगाभ्यासिनः परोपदेष्टारः कर्मशूरा दीनेषु कृपायमाणाः शक्तिमन्तश्च भवन्ति ॥२॥ सायणाचार्येणाऽत्र रुप-रुशम-श्यावक-कृप नामकाश्चत्वारो नृपाः, कण्वासः इत्यनेन च कण्वगोत्रा ऋषयः स्वीकृताः। तदसमञ्जसं, सृष्ट्यादौ प्रादुर्भूतेषु वेदेषु परवर्तिनामैतिहासिकपुरुषाणा- मुल्लेखासंभवात् ॥
टिप्पणीः -
१. ऋ० ८।४।२, अथ० २०।१२०।२, उभयत्र ‘कण्वा॑सस्त्वा॒ ब्रह्म॑भिः॒ स्तोम॑वाहस॒’ इति तृतीयः पादः। २. (रुशमाः) ये रुशान् हिंसकान् मिन्वन्ति ते। इति ऋ० ५।३०।१२ भाष्ये द०।